SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ( १४ ) पाने शौण्डः पानशौण्डो मद्यपः । मद्यपे वर्तमानोऽपि शौण्डशब्द : गौणवृत्त्येह व्यसनिनि वर्तते, अक्षेषु धूर्तः अक्षधूर्तः । बहुवचनमाकृतिगणार्थम् ॥८८॥ सिंहाद्यः पूजायाम् ।३।१।८६ । एभिः सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पूजायां गम्यमानायां । . समरसिंहः । भूमिवासवः ॥ ८६ ॥ समरे सिंह इव समर सिंहः । भूमौ वासव इव इन्द्र इवेत्यर्थः । उपमयाऽत्र पूजाऽवगम्यते । बहुवचनमाकृतिगणार्थम् । यत्र साधारणधर्मवाचकशब्दस्याप्रयोगस्तत्रैवायं समासः तेन समरेसिंह इव शूरः इवेत्यत्र शूरशब्दस्य साधारणधर्मवाचकस्योपादानान्न समासः ॥ ८६ ॥ काका: क्षेपे | ३|१र्दिन एभिः सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः स्यात् । तीर्थ काकः । तीर्थश्वा । क्षेपइति किम् । तीर्थ काकोस्ति |८०| 1 तीर्थे काक इव तीर्थकाकः । तीर्ये श्वा इव तीर्थश्वा । अनवस्थित एवमुच्यते । यथा तीर्थे काको न चिरं तिष्ठति तथा यो गुरुकुलं गत्वापि न चिरं तिष्ठति, अन्यत्र वा कार्ये सोऽनवस्थित उच्यते । तीर्थे काकोऽस्तीति-अत्र तत्त्वाख्यानं न पुनरन्यः काकतुल्यः क्षिप्यमान उच्यते इति क्षेपः इति समासो न भवति । बहुवचनमाकृतिगणार्थम् ॥६०॥ 1 पात्रेसमितेत्यादयः | ३|१|१| एते सप्तमीतत्पुरुषाः क्षेपे निपात्यन्ते । पाले समिताः । गेहे शूरः ॥१॥ पात्रे एव समिताः - पात्रेसमिताः पात्रे भोजनार्थे भाजने एव समिताः
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy