________________
( ६३ )
।५।२।६२। सूत्रेण वर्तमाने क्तः भवति सर्वत्र कर्तरि' ।।२।८६। इति षष्ठी । वर्तमाने क्तविधानात् 'क्तयोरसदाधारे' ।२।२।६१। इति न षष्ठ्या निषेधः । राज्ञां ज्ञायमानः इष्यमाणः पूज्यमान इति क्रमेणार्थः । इदमेषां यातमिति-'यांक प्रापणे' इत्यतः 'तक्तवतू' ।५।१।१७४। इति भते 'अद्यर्थाच्चा०' ।५।१।१२। इति सूत्रणाधारे तो भवति 'कर्तरि' ।२।२।८६। इति षष्ठी। आधारे क्तविधानात् 'क्तयोरसदाधारे' ।२।२।११। इति न षष्ठया निषेधः । यायते स्माऽत्रेत्यर्थः ।।८६।।
अस्वस्थगुणः ।३।१८७। ये गुणाः स्वात्मन्येव तिष्ठन्ति न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते । पटस्य शुक्लः । गुडस्य मधुरः । अस्वस्थगुणैरिति किम् । घटवर्णः। चन्दनगन्धः ॥७॥
पटस्य शुक्लः इत्यादि-शुक्लः पट: इत्यादी द्रव्येऽपि वृत्तिदर्शमादस्वास्थ्यमस्त्येव । सर्वेषामपि भावप्रत्ययेन स्वस्मिन्नवस्थितानां प्रतीतेः पटस्य शौक्ल्य-मित्यादि ततश्च सर्वे एव गुणा: स्वस्था इत्यनवधारणाश्रये आनर्थक्यादवधारणमाश्रीयते । ये गुणाः स्वात्मन्येवेति-स्वस्मिन्नेव भात्मन्येव स्वात्मनि स्वस्वरूपे एवावतिष्ठन्ते ये ते स्वस्था इति । घटवर्णः इत्यादिवर्णादयो न कदापि द्रव्यवाचका इति स्वस्था एवेति नात्र निषेधः । गणशब्देन चेह लोकप्रसिद्धा एव रूपरसगन्धस्पर्शगणा: अभिप्रेतास्ततस्तद्विशेषरेवायं प्रतिषेधः तेन यत्नस्य गौरवम् यत्नगौरवम्, प्रक्रियालाघवमित्यादिषु प्रतिषेधो न भवति ॥८७॥
सप्तमी शोण्डाद्यः ।३।१८८। एभिः सहकायें सप्तम्यन्तं समासस्तत्पुरुषः स्वात् । पानशौण्डः। अक्षधूर्त्तः ॥८॥