________________
( १४३ )
प्राप्तमिति श्रूयते । तस्य । चोत्पादे द्वयी गति:-निसर्गोऽधिगमश्च निसर्गो स्वभावः गुरुपदेशनिरपेक्षः-सम्यक श्रद्धानकारणमिति । कुक्कुटमयूरावित्यादि-एवत्सुत्रलक्ष्यातिरिक्तस्थले तु कामचारेणोभयोः पर्यायेण पूर्वप्रयोगः । अथ स्पर्द्ध परमेव भवती त किञ्चित्प्रकाश्यते--व्रीहिश्च यवश्च वीहियवावत्र लघ्वक्षरो यवः ब्रीहिः इदन्तः इति लघ्वक्षरापेक्षयेदन्तस्य सूत्रे परत्वात् बीहेरेव पूर्वनिपातः । एकवचनान्तेन विग्रहान्नात्र धान्यलक्षणमेकत्वम् ‘बहुत्व' इति वचनात् । असखीदुदैदित्यैकपद्यादिदुतोः स्पर्द्ध कामचारः पतिश्च वसुश्च पतिवसू वसुपती । अयं भावः असखीदुत्' इत्येक पदं न तु असखीदित्येकं पदम् ‘उत्' इति च भिन्नम् । तथा च सूत्रपाठेपरत्वव्यवस्था पदपाठनिबन्धनैवेति पदपूर्वापरीभावविरहान्न परत्वनिमित्तकः उदन्तस्य पूर्वनिपात-नियम इति तत्र कामचार एव भवति । उष्ट्रश्च खरश्च उष्ट्रखरमित्यत्रोष्ट्रशब्दस्य स्वराद्यन्तत्वं स्वरशब्दस्य लघ्वक्षरत्वमिति लघ्वक्षरापेक्षया स्वराद्यन्तस्य सूत्रपाठे परपठितत्वात्तस्यैव पूर्वनिपातः गवाश्वादित्वादेकार्थत्वम् । धवश्चाश्वकर्णश्च धनाश्वको एतन्नामको वृक्षो अत्र स्वराद्यन्तेन स्पर्द्ध:-तत्राल्पस्वरस्य सूत्रपाठे परत्वादल्पस्वरनिमित्तकः धवस्य पूर्वनिपातो भवति । दीक्षा च तपश्च दीक्षातपसी-अत्र तपसो लघ्वक्षरत्वेऽपि दीक्षाया बहूपकारकत्वान्मलभूतत्वाच्चार्चितत्वात् परत्वात्पूर्वनिपातः दधिपय-आदित्वाच्च नैकवद्भावः इति । ननु स्वभावत एकस्यैव पूर्वनपातो भविष्य-तीत्येकमिति व्यर्थमिति चेत्सत्यम् । युगपदनेकस्य पूर्वनिपाते प्राप्ते एकस्यैव यथा-प्राप्तं पूर्वनिपातः शेषाणां तु कामचार इति प्रदर्शनार्थमेकग्रहणम् । तेन शङ्खश्च दुन्दुभिश्च वीणा च-शङ्खदुन्दुभिवीणाः शङ्खवीणादुन्दुभयः वीणादुन्दुभिशङ्खा वीणाशङ्खदुन्दुभय इति प्रयोगचतुष्टय भवति-अयं भाव:-अत्र शङ्खवीणाशब्दयोरल्पस्वरत्वम्-दुन्दुभेरसखीदन्तत्वमिति तदपेक्षयाऽल्पस्वरयोः शङ्खवीणा-शब्दयोरुभयोः पूर्वनिपातः स्पर्धे परत्वात् प्राप्तः तत्र यदा शङ्खशब्दस्य पूर्वनिपातः तदा वीणाशब्दे कामचारः इति शङ्खदुन्दुभिवीणाः, शङ्खवीणादुन्दुभयः इति प्रयोगद्वयम् यदा वीणाशब्दस्य पूर्वनिपातः तदा शङ्खशब्दे कामचारः इति 'वीणाशङ्खदुन्दुभयः, वीणादुन्दुभिशङ्खा इति