________________
( १४४ )
प्रयोगद्वयमेवं प्रयोग- चतुष्टयं भवति । एकग्रहणात् दुन्दुभिशङ्खवीणा इति तु न भवति । विस्पष्टपटुरिति - विस्पष्टं पदुरिति विग्रह: अत्र 'नाम नाम्ने० ' | ३|१| ३भ । इति सामान्यतः समासः 'मयूरव्यंसकेत्यादयः' । | ३|१|११६। इति तत्पुरुषसमासो वा ज्ञेयः । द्वन्द्वाभावादिहोकारान्तस्य पटुशब्दस्य पूर्वप्रयोगो न भवति ॥ १६० ॥
मासवर्णभ्रात्रऽनुपूर्वम् । ३।१।१६१।
एतद्वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् । फाल्गुनचेत्रौ । ब्राह्मणक्षत्रियौ । ब्राह्मणक्षत्रियवैश्याः । बलदेववासुदेवौ ।। १६१ ।।
मासाश्च
वर्णाश्च भ्रातरश्चेति समाहारे मासवर्णभ्रातृ पूर्वं पूर्वमनुसृत्यानुपूर्वम्, पूर्वमनतिक्रम्येतिवाड - व्ययीभावानां स्वपदविग्रहाभावात्, अनतिक्रमश्चानुसरणमेव । अनुपूर्वमिति मासेषु यो मासो यस्मात् पूर्वभावित्वेन प्रसिद्धस्तस्य पूर्व प्रयोगः एवं वर्णभ्रातृणामपि अनुग्रहणादेकमिति निवृत्तम् आनुपूर्व्यं पूर्वपश्चाद्भावस्वरूप क्रमवैशिष्ट्य ेन ज्ञानम् मासानां च तल्लोकप्रसिद्धमेव भ्रातोर्भ्रातॄणां वा क्रमवैशिष्ट्य तु प्रादुर्भावकालकृतं बोध्यम्, वर्णानां चानुपूव्यं लोकप्रसिद्धितो ज्ञेयम् । लोकप्रसिद्धिश्चेत्थम् - वर्णानां चानुपूर्व्यं तत्तज्जन्मस्थानकृतम् तथाहि
मुखतो ब्राह्मणा जाता, बाहुभ्यां क्षत्रियाः स्मृताः । ऊरुभ्यां तु विशः प्रोक्ताः, पद्भ्यां शूद्रो-प्यजायत ॥
शब्दानुशासनस्य सर्वपार्षदत्वात् परसमयापेक्षयापि साध्यते इति । फाल्गुनचैवाविति - फाल्गुनश्च चैत्रश्चेति विग्रहः । ब्राह्मणक्षत्रियावितिब्राह्मणश्च क्षत्रियश्च अत्रोभयोः समस्वरत्वेनार्च्यत्वनिर्णयाच्चानिणये प्राप्तेऽनेनानुपूर्व पूर्वनिपातो भवति । ब्राह्मणक्षत्रियवैश्या इति ब्राह्मणश्च क्षत्रियश्च वैश्यश्चेति विग्रहः । अत्राल्पस्वरत्वेन पूर्वनिपाते प्राप्तेऽनेनानुपूर्व्यात् निपातः । बलदेव वासुदेवाविति - अर्च्यत्वं तु विवादास्पदं तत्तद्वि-शेषगुणापेक्षया च करुच्यधीनमिति तदनुसारिणी व्यवस्थेति प्रकृतसूत्र