Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 518
________________ ( १७५ ) र्गान्तपाठमपि पठन्ति, तथापि तत् 'छन्दसि दृष्टानुविधिः' इति सिद्धान्तासमाधयमित्याहः किञ्च छन्दसि 'द्यावाचिदस्मै पृथिवी सन्तमेते' इति व्यस्तेऽपि प्रयोगे पृथिवीशब्दे व्यवहिते द्यावाशब्दो दृश्यते सोऽपि तथैव साधनीयः एवं च पृथक विसर्गान्तपाठं नाद्रियन्ते । स्वमते तु ज्ञानगौरवापेक्षया शब्दोच्चारणगौरवस्य लघीयस्त्वमित्याशयेन 'दिवः' इति विसर्गान्त एवादेशः स्वीकृत इति बोध्यम् ।।४५॥ उषासोषसः ।३।२।४६। देवताद्वद्न्वे उषस उत्तरपदे उषासा स्यात् । उषासासूर्यम्।४६। उषश्च सूर्यश्च-उषासासूर्यम्, अत्र समाहारः । उषस् इति सान्तं क्लीबं प्रत्यूषवाचि तदपि देवतात्वेन वेदे प्रसिद्धमिति न देवताद्वन्दत्वहानिः ।।४६।। - मातरपितरं वा ।३।२।४७। मातृपित्रोः पूर्वोत्तरपदयोन्वे ऋतोऽरो वा निपात्यते । मातरपितरयोः । मातापित्रोः ॥४७॥ माता च पिता-मातरपितरौ पक्षे मातापितरौः एकशेषे तु पितरौ । नन्विह मातरपितरमिति नपुसक-निर्देशोऽयुक्तः इहेतरेतरयोगद्वन्द्वस्येष्ट'त्वात्तत्र ..च उत्तरपदलिङ्गस्यैव विधानात्पुल्लिगनिर्देश एव युक्त इति चेत्सत्यम् । इह शब्दरुपापेक्षो नपुंसकैकवचननिर्देशः उत्तरपदस्य अरभावाभिव्यक्तयर्थः तेन मातरपितराभ्याम्, मातरपितरयोः पक्षे मातापितभ्याम्, मातापित्रोः । अत्राऽरादेशस्योभयपदविषयत्व-प्रदर्शनार्थे नवीने द्व उदाहरणे । अयं स्पष्टार्थः-इह न तच्छब्दगतलिङ्गवचने विवक्षिते अपि तु शब्दस्वरूपमात्रविवक्षा शब्दस्वरूपविवक्षणे च सामान्ये नपंसकमिति नियमान्नपुसकं प्रथमोपस्थितत्वाच्चैकवचनम्, 'मातरपितरौ वा' इति स्वाभाविके निर्देशे सति किमिदम् 'अडौं वा' ।१।४।४। इत्यरादेशेन

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576