________________
( १७५ )
र्गान्तपाठमपि पठन्ति, तथापि तत् 'छन्दसि दृष्टानुविधिः' इति सिद्धान्तासमाधयमित्याहः किञ्च छन्दसि 'द्यावाचिदस्मै पृथिवी सन्तमेते' इति व्यस्तेऽपि प्रयोगे पृथिवीशब्दे व्यवहिते द्यावाशब्दो दृश्यते सोऽपि तथैव साधनीयः एवं च पृथक विसर्गान्तपाठं नाद्रियन्ते । स्वमते तु ज्ञानगौरवापेक्षया शब्दोच्चारणगौरवस्य लघीयस्त्वमित्याशयेन 'दिवः' इति विसर्गान्त एवादेशः स्वीकृत इति बोध्यम् ।।४५॥
उषासोषसः ।३।२।४६।
देवताद्वद्न्वे उषस उत्तरपदे उषासा स्यात् । उषासासूर्यम्।४६। उषश्च सूर्यश्च-उषासासूर्यम्, अत्र समाहारः । उषस् इति सान्तं क्लीबं प्रत्यूषवाचि तदपि देवतात्वेन वेदे प्रसिद्धमिति न देवताद्वन्दत्वहानिः ।।४६।।
-
मातरपितरं वा ।३।२।४७। मातृपित्रोः पूर्वोत्तरपदयोन्वे ऋतोऽरो वा निपात्यते । मातरपितरयोः । मातापित्रोः ॥४७॥ माता च पिता-मातरपितरौ पक्षे मातापितरौः एकशेषे तु पितरौ । नन्विह मातरपितरमिति नपुसक-निर्देशोऽयुक्तः इहेतरेतरयोगद्वन्द्वस्येष्ट'त्वात्तत्र ..च उत्तरपदलिङ्गस्यैव विधानात्पुल्लिगनिर्देश एव युक्त इति
चेत्सत्यम् । इह शब्दरुपापेक्षो नपुंसकैकवचननिर्देशः उत्तरपदस्य अरभावाभिव्यक्तयर्थः तेन मातरपितराभ्याम्, मातरपितरयोः पक्षे मातापितभ्याम्, मातापित्रोः । अत्राऽरादेशस्योभयपदविषयत्व-प्रदर्शनार्थे नवीने द्व उदाहरणे । अयं स्पष्टार्थः-इह न तच्छब्दगतलिङ्गवचने विवक्षिते अपि तु शब्दस्वरूपमात्रविवक्षा शब्दस्वरूपविवक्षणे च सामान्ये नपंसकमिति नियमान्नपुसकं प्रथमोपस्थितत्वाच्चैकवचनम्, 'मातरपितरौ वा' इति स्वाभाविके निर्देशे सति किमिदम् 'अडौं वा' ।१।४।४। इत्यरादेशेन