________________
( १७६ )
रूपमुत तदंशेऽपि निपातनमेवेति निर्णयो न स्यात् । तन्निर्णयाय अरादेशस्य स्पस्टीकरणायेत्थं निर्देश इति ॥४७॥
वर्चस्कादिष्ववरकरादयः ।३।२।४८। एष्वर्थेष्वेते कृतशषाद्य त्तरपदाः साधवः स्युः। अवस्करोऽन्नमलम् । अवकारो ऽन्यः । अपस्करो रथाङ्गम् । अपकरोऽन्यः ।४८। वर्चस्कादिष्विति-कुत्सितं वर्च इति-वर्चस्शब्दात् कुत्सार्थे संज्ञायां कप् । .. विष्ठायामयं रूढः । सोऽर्थो आदर्श प्रथमो येषां रथाङ्गादीनां तेष्वर्थे... ष्वित्यर्थः तद्गुणसंविज्ञानात् वर्चस्कार्थोऽ पि गृह्यत एव । अवस्कर इतिअवकीर्यते दूरं विक्षिप्यते इत्यवस्करः अलि गुणेऽनेनो-त्तरपदस्यादौ सकारे च सिद्धम् । अन्नमलमिति-भुक्तस्यान्नस्य रसादिषु तेजः शरीरेणौदारिक शरीरसात्कृ- तेषु यद् वहिः क्षिप्यते तदे वान्नमलम् । अवकारोऽन्य इति-वर्चस्कादन्योऽ-वकीर्यमाणो गृहान्निः-सारितोऽपद्रव्यसमूहोऽवकर इत्यर्थः । अपस्करो रथाङ्गमिति- रथोपकारिणि काष्ठे अपस्कर इति निपात्यते इत्यर्थः । रथाङ्गपदेनेह चक्रभिन्नं रथोपकारि द्रव्यं काष्ठं वा गृह्यते । अपकीर्यते स्वस्वस्थाने क्षिप्यते इत्यपस्करः पूर्ववदल्प्रत्ययादिः, रथाङ्गादितरोऽपकर एवेत्याह- अपकरोऽन्य इति । बहुवचनाकृतिगणार्थम् । इदं तु बोध्यम्-अवस्करशब्द: तत्सम्बन्धात्तद्दे शेऽपि लाक्षणिकः । तस्यावस्करस्य सम्बन्धादाधारत्वात् तद्देशः, यत्र देशे तस्य सम्बन्धः स देशोऽप्यवस्करशब्देनोच्यत इति भावः । 'लक्षणा शक्यसबन्धस्तात्पर्यानूपपत्तितः' इति वचनात् लक्षणायाः शक्यसम्बन्धत्वं लक्षणम् । शक्यस्य = शक्त्योपस्थितस्यार्थस्य सम्बन्धः यः कश्चित् सामीप्यसादृश्यादि= यथायोग्यं सम्बन्धः स एव लक्षणा इत्यर्थः। अत्राधारत्वरूपः सम्बन्धः ।।४८॥
परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनङ् ।३।२।४६॥ परतोविशेष्यवशात् स्त्रीलिङ्गा स्त्रीवृत्तावेकार्थे उत्तरपदें पुम्व