________________
( १७७ )
त्स्यात् । न तूडन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ्यइति किम् ? गृहिणीनेत्रः । कल्याणीमाता । अनूङिति किम् । करभोरुभार्यः
॥४६॥
1
एकार्थं नाम समानाधिकरणम् । शब्दस्याधिकरणमर्थः, अर्थे शब्दस्य वृत्तेः स तस्याधिकरणं तदेव समानम् अधिकरणं यस्य तत् समानाधिकरणम् । दर्शनीया भार्या यस्य स दर्शनीय भार्यः । दर्शनीय - शब्दो विशेष्यनिघ्नः अत्र नित्यस्त्रीलिङ्गभार्याशब्दरूपविशेष्य-परिततत्यात् स्त्रीत्वमापन्नः । 'एकार्थं चानेकं च' । ३।१।२२ इति सूत्र ेण समासः, 'गोश्चान्ते ० ' | ३ | ४ | ९६ । इति भार्याशब्दस्य ह्रस्वः । द्रोणीभार्य इति - द्रोणीशब्द: नदीवाचको नित्य - स्त्रीलिङ्गः, यद्यप्यस्य मार्याशब्देन पत्नीवाचकेन नैकार्थ्य संभावना तथापि तस्यामौपचारिकं भार्यात्वमारोप्य व्यवहारः समाधेयः । अत्र पुंवद्भावे शब्दातः प्रत्यासन्नो द्रोणशब्दः प्राप्नुयात् । अयं भावः परतः इत्यस्याभावेऽत्रापि स्वप्रवृत्तौ तत्तत्प्रवृत्तिनिमित्तकस्य शब्दस्य पुंस्त्वाभावेऽपि भिन्नप्रवृत्तिनिमित्तकस्य समानाकृतेः शब्दस्य प्रयोगः स्यात् । तथा च द्रोणीभार्य इत्यत्र द्रोणीशब्दस्य स्थाने काकाढकचतुष्ट्यादिवाची द्रोणीशब्दः प्रयुज्येत । खलं पुनाति यत्कुलं तत् खलपु । खलपु दृष्टिरस्यासौ खलपुदृष्टिः, यद्यत्रापि पुंवद्भावः स्यात्तदा क्लीवत्वप्रयुक्तो ह्रस्वो निवर्तेतेति दीर्घान्तस्य खलपूशब्दस्य श्रवणं स्यात् । गृहिणीनेत्र इत्यादि - गृहिणी नेत्रं यस्य स गृहिणी - नेत्रः अत्र समानाधिकरणत्वेऽपि न स्त्रीलिङ्गोत्तरपदं वर्तते । एवं कल्याया माता कल्याणीमाता । अत्र स्त्रीलिङ्गोत्तरपदत्वेऽपि न सामानाधिकरयम् । करभवत् उरू जङ्घ े यस्याः सा करभोरू: 'उपसमान सहित ०' ।२।४।७४। इत्यूङ्प्रत्ययः । अनुङिति प्रसज्यप्रतिषेधात् इडविडऽपत्यं स्त्री अत्र तस्य लुप् इडविड् । सा चासो भार्या च ऐडविडभार्त्येत्यादिषु उत्तरेण वद्भावः । पर्युदासे हि ऊसदृशप्रत्ययान्तस्यैव पुंवद्भावः स्यात् । अयं भावः - ननु 'न तूङतः' इति प्रसज्यप्रतिषेधाश्रयणमयुक्त वाक्यभेदरूप - गौरवात् पर्युदासे हि 'ऊङन्त - भिन्नः परतः स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थ उत्तरपदे पुवदित्येकमेव वाक्यं भवतीति लाघवमिति चेत्सत्यम् - पयुं - भिन्नस्तत्सदृशस्य प्रत्ययान्तस्यैव ग्रहणात् इह चापत्यार्थप्रत्य - यस्य स्त्रियां लुपि सति प्रत्ययान्तभिन्न एवेडविड् शब्दः, तस्य पंवद्भावो