________________
( १७८ )
न स्यादित्यैडविडभार्या इति रुपं न स्यात्, किन्तु इडविड्भार्येति, अत्र 'पुवत् कर्मधारये' ।३।२।५७। इति पुवद्भावो भवति तत्राऽप्यूनूडित्यस्य सम्बन्धोऽस्त्येवेति । यद्यत्र पथुदासः स्यात्तदा तत्रापि पर्युदास एव स्यात्, पयुदासे सदृशार्थस्यैव ग्रहणं भवति-यथा अब्राह्मण-मानयेत्युक्त ब्राह्मणभिन्नो मनुष्य एवाऽऽनीयते न तु पश्वादि: काष्ठादिर्वा, तथा चात्र ऊड़भिन्न ऊसदृशो गृह्यत सादृश्यं च स्त्रीप्रत्ययत्वेन सामान्यतः प्रत्ययत्वेन का ग्राह्यम्, उभयथापि प्रकृते दोष एव, इडविडशब्दो न स्वीप्रत्ययान्तो नवा किञ्चित्प्रत्ययान्तः प्रत्ययस्येह लुप्तत्वात् एवं चेदशलक्ष्यसिद्धयर्थं प्रसज्यप्रतिषेधाश्रयणम् फलमुखगौरवस्याकिञ्चित्करत्वात् ॥४६॥
क्यङमानिपित्तद्धिते ॥३॥२॥५०॥
क्यङि मानिनि चोत्तरपदे पित्तद्धिते च परतः स्त्र लिङ्गोऽनङः पुम्वत्स्यात् । श्येतायते । दर्शनीयमान्ययमस्याः । अजथ्यं यूथम् ॥५०॥ श्येतशब्दो वर्णवाची वर्णविशिष्टार्थमपीति स्त्रीलिङ्गतस्य श्येनीति रुपं भवति । श्येनीवाचरतीति क्यङ्' ।०।४।२६॥ इति क्यङि अनेन पुंवत्त्वे दीर्घ च श्येतायत इति । इमां दर्शनीयां मन्यते दर्शनीयमानी अय मस्याः। 'मन्यापिणन्' ।५।१।११६। इति णिन् मानिन्ग्रहणमस्त्युत्तरपदार्थम्, असमानाधिकरणाथं च । यद्यपि दर्शनीयामात्मानं मन्यते स्त्री-दर्शनीयमानिनीत्यसरूपत्वादत्रापि णिन्। अत्र या दर्शनीया सैव मानिनीति स्त्रीत्वं सामानाधिकरण्य चोभयमिह पूर्वेणंव सिद्धस्तथापि परत्वात्प्रतिपदोक्तत्वाच्चायमेव प्रवर्तते । यदा कांचित् स्त्रियं काचित्स्त्री दर्शनीयां मन्यते तदा दर्शनीयमानिनीत्यत्र स्त्रीवृत्तावृत्तपदेऽपि एकार्थोत्तरपदाभावात्पूर्वण न सिद्धः इत्यनेनपुव
भावः । अजागै हितम्अजयं यूथम् अव्यजात् थ्यप' ।७।१।३८। इति ध्यप, अनेन पुंवद्भावः ।।५०॥
जातिश्च णितिद्धितयस्वरे ।३।२।५११