________________
( १७६ )
अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुम्वत्स्यात् अनूङ् । पटयति । एत्यः । भावत्कम् । जातिः - दाराद्यः । गार्गः । तद्धितेति किम् । हस्तिनीयति । हस्तिन्यः ॥५१॥
पट्टीमाचष्ट - पयति । 'नामिनीऽक लिहले:' | ४ | ३ |५१ | इति वृद्धि:, 'तन्त् यस्वरादेः' ।७।४।४३। इत्यन्त्यस्वरादिलोपः तस्य स्थानिवद्भावादुपान्त्य - वृद्ध्यभावः । एन्यां साधुः एत्यः 'तत्र साधी | ७|१| १५ | इति यः । भवत्या इदं - भावत्कम् ' भवतोरिकणीयसी' | ६| ३ | ३०| इतीकण् 'ऋवणोवर्ण०' |७|२| ४ | इतीकण इकारलोपः । दरदोऽ पत्यं स्त्री अण तस्य 'द्र रत्रणो० ' | ६|१|१२३ । इति अणो लप् तस्यां साधुः ये ऽनेन पुंवद्भावे अणन्तः एव . दारदशब्दः समायाति तस्यान्त्यस्याकारस्य लोपे दारद्य इति । अत्र
वावस्यापो निवृत्तिः फलम् । गार्ग्यायण्याः कुत्सितमपत्यं -- गार्गः 'वृद्ध० |६| १८७॥ इति णे पुंवद्भावे गार्ग्रशब्दस्यान्तलो यलोपे च - गार्ग इति । हस्तिनीमिच्छति - हस्तिनीयति 'अमाव्ययात् ०' | ३|४|२३| इति क्यन् । हस्तिन्यः इति - अयं प्रथमाबहुवचनस्य रूपम् । जातिग्रहणं स्वाङ्गात् ० ' | ३ |२|५६ | इति जातिलक्षणप्रतिषेधनिवृत्त्यर्थम्, सति तस्मिन् चकारोऽन्य- स्त्री संग्रहार्थः जातिः परतः स्त्री, अन्या च परतः स्त्री पुंवद्भवतीत्यर्थः अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् अत्र तद्वितयस्वर इति विषयसप्तम्याश्रयणम् न तु 'सप्तम्याः पूर्वस्य' | ७|४|१०५ | इति परत्वार्थिका सप्तमी तेन पट्ट्ट्या भावः पाटवम्, अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे लघ्वादित्वात् 'वर्णाल्लघ्वादेः' | ७|१|६६ | इत्यण् भवति परसप्तम्याश्रयणे तु संयोगे परे पूर्वस्य गुरुत्वान्न पट्वीशब्दो लघ्वादिरिति • ततोऽ ण्ं न स्यात् । किन्तु गुणाङ्गप्रवृतिनिमित्तत्वेन 'पतिराजान्तगुणाङ्ग०' | ६| १ | ६० । इति ट्यण् स्यात् । एवं पूर्वमुक्ते दारय इत्यत्र पुंवद्भावस्या - लुपो निवृत्तिः फलमित्युक्तम् किन्तु तत्र निवृत्तिः पूर्वमप्रवृत्तिरेव जातस्य निवृत्त्ययोगात्, इदसपि विषय सप्तम्याश्रयणस्य फलम् ||५१||
एग्नायी । ३।२।५२ |