________________
(850)
एयप्रत्ययेऽग्नय्येव परतः स्त्री पुम्वत् स्यात् । आग्नेयः । पूर्वेण सिद्ध े नियमार्थमिदम् । श्यैनेयः ॥ ५२ ॥
,
अग्नेः स्त्रीत्यर्थे धवयोगे 'धवयोगे 'पूतक्रतू - वृषाकप्यग्नि० ' | २|४| ६० । इति ङी: अन्तस्यैः आयादेशे च अग्नायीति । अग्नाय्या अपत्यम् ' कल्यग्नेरेयण्' ।६।१।१७। इत्येयण् । प ंवद्भावः आदिवृद्धिश्च । पूर्वेण सिद्ध े नियमार्थमिदम् तेन श्येन्या अपत्यं श्येनैयः इत्यत्र पूर्वेणा - पि न भवति । अत्र 'द्विस्वरादनद्याः' ।६।१।७१। त्येयण् । ननु एये एवाग्नायीशब्दस्य पुंवत्त्वं नान्यति विपरीतनियमः कथं न भवतीति चेत्सत्यम् यदि विपरीतनियमोऽभिप्र ेतः स्यात्तर्हि एयभिन्ने निषेधस्य फलितया निषेधप्रकरणे एव 'अग्नायी अनेये' इति क्रियताम् 'आग्नेय' इति निपात्यतां वा तच्च निपातनं नियमार्थं भविष्यति एये एवाग्नायीशब्दस्य पुंवत्त्वं नान्यत्र ेति तदुभयमकृत्वा 'एयेऽग्नाथी' इति करणेन एये एवाग्नायीशब्दस्य पुत्रत्वं नान्यत्रेति तदुभयमकृत्वा विपरीतनियमः न भवति तेन - अग्नायै हितमित्यर्थे ईये 'जातिश्च ० ' | ३ | २५१ | इति पुंवद्भावे अग्नीय इति रूपं भवंति विपरीतनियमे तु अग्नीयीय इति स्यात् ||५२||
नाप्रियादौ । ३।२।५३।
अप- प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुम्वन्न स्यात् । कल्याणीपञ्चमा रात्रयः । कल्याणीप्रियः । अप्रियादावितिकिम् | कल्याणपञ्चमीकः पक्षः ॥ ५३ ॥
कल्याणीपञ्चमी आसां ताः कल्याणीपञ्चमा रात्रयः । अत्र यैव पञ्चमी तज्जातीयाया एव रात्रेरन्यपदार्थत्वात्प्राधान्यमिति पूरणीभ्यस्तत्प्राधान्येऽप् | ७|३ | १३० । इत्यप् 'अवर्णवर्णस्य' | ७|४|६८ । इतीकार - लुक् । स्त्रीत्वादाप् । 'परतः स्त्री० ' | ३ |२| ४६ | इति प्राप्तस्य पुंवद्भावस्यानेन निषेधः । कल्याणी प्रियाऽस्य कल्याणीप्रियः । कल्याणी पञ्चमी ( रात्रिः ) अस्मिन् कल्याणपञ्चमीकः पक्षः इति अत्र पूरण्याः प्राधान्याभावादप्रत्ययो न भवति 'ऋन्नित्यदितः | ७ | ३ | १७१ | इति कच् ||५३ ||