________________
( १८१ )
तद्धिताककोपान्त्यपूरण्याख्याः ।३।२।५४। तद्वितस्याकप्रत्ययस्य च कउपान्त्योयासां ताः पूरणप्रत्ययान्ताः संज्ञाश्च परतः स्त्री पुम्वन्न स्युः । मद्रिकाभार्यः। कारिका भार्य। पञ्चमीभार्यः । दत्ताभार्यः । तद्धिताकेति किम् ? पाकभार्यः तद्धितेत्यादि-तद्धितश्चाकश्च तद्धिता-ऽको, तयोः कः तद्धिताककः, स उपान्त्यो येषां स्त्रीरूपाणां शब्दानां ते-तद्धिताक कोपान्त्या श्च पूरण्यश्चआख्याश्च तद्धिताककोपान्त्यपूरण्याख्या इति । यद्यपीह सामानाधिकरण्याभावेन पुवद्भावस्य प्राप्त्यभावात् ‘तद्धिताककोपान्त्या-पूरण्याख्या' इति सूत्रस्वरूपं स्यात् तथापि किं सूत्रपाठ एव ह्रस्वपाठ: लेखकप्रमादकृतो वेति, चिन्त्यम् । मद्रिकाभार्य इति, 'वृजिमद्राद् देशात् कः' ।६।३।३८। इति शेषेऽर्थ कः, सा भार्या यस्य स परतः स्त्री०' ।३।२।४६। इति प्राप्तं पवत्त्वमनेन निषिध्यते । मद्रशब्द: देशवाचकः । कारिकाभार्य इति-करोतीति-कारिका कर्तरि अकः स्त्रीत्वादाप, इत्त्वे च कारिकेति । सा भार्या यस्येति विग्रहः । पञ्चमीभार्य इति-पञ्चानां पूरणी-पञ्चमी, सा भार्या यस्य, पञ्चन्-शब्दात् 'नो मट्' ।७।१।१५६। इति मट टित्त्वान्डीः-पञ्चमी । दत्ता-भार्य इतिददातीति दत्ता कर्तरि क्तः अथवा दीयते स्मेति दत्ता । कस्याश्चित्संज्ञेयम् । यद्यप्ययं स्त्रीविशेषरुढः इति स्वत एव स्त्रीलिङ्गः न तु विशेष्यवशात्तथापि दानक्रियानिमित्तो दत्तशब्द: न स्त्रीलिङ्गोऽ पि तु विशेष्यवशादेवेति तस्य परतः स्त्रीत्वमक्षतमिति ‘परतः स्त्री०' ।३।२।५९। इति पुवत्त्वं प्राप्तमनेन निषिध्यते । पाकभार्य इति-तद्धिताके ति विशेषणाभावेऽ न्यविधकोपान्त्यस्यापि पुवद्भावस्य प्रतिषेधः स्यादित्ययं न सिध्येत । पाकशब्द: प्रथम- वयोवाची, अजादिगणपाठादप् ।।५४॥
तद्धितः स्वरवृद्धिहेतुर रक्तविकारे ।३।२॥५५॥ रक्तविकाराभ्याम-न्यार्थः स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्रीपुम्वन्न स्यात् । माथुरीभार्यः । स्वरेति किम् ? वैयाकरण