________________
( १८२ )
भार्यः । वृद्धिहेतुरिति किम् ? अद्ध प्रस्थभार्यः। अरक्त वकारकिम् । काषायबृहतिकः । लौहेयः ॥५५॥ स्वरवृद्धिहेतुरिति-वृद्धिरारदौत्' ।३।३।१। इति सूत्रेणाऽऽरदोतां वृद्धिसंज्ञा विधीयते, ते च प्रायः स्वरस्थाने भवन्ति व्यञ्जनस्थानाया वृद्ध रभावात् अनादेशरूपा अप्येते । तेषां व्यावृत्त्ययं स्वरग्रहणम् । तद्धित इतिप्रत्ययग्रहणे तदन्तस्य ग्रहगाद् शब्दइति विशेष्यस्याध्याहार्येण 'विशेषणमन्तः' १७.४।११३॥ इति परिभाषाबलाद्वाऽऽह तदन्तः परतः स्त्रीलिङ्ग इति। मयुरायां भवा सत्री माथुरी सा भार्या यस्य स माथुरी-भार्य इति । वैयाकरणभार्य इति-व्याकरणं वेत्त्यधीते वा स्त्री सा वैयाकरणी 'तद्वत्यधीते ।६।२।११६। इत्यण अत्रादिस्वरवृद्धि बाधित्वा 'स्व: पदान्तात्०' . : ।७४।५। इत्यत् । यद्यप्यैद् वृद्धिः किन्तु न तु सा स्वरस्थाना । अर्द्धप्रस्थभार्य इति–अर्धप्रस्थे भवा भवार्थण अर्धप्रस्था भार्या यस्येतिविग्रहः 'अर्धात्परिमाणस्यानतो वा त्वादे: ।७।४।२०। इत्यनेनार्धात्परस्य परिमाणार्यस्य प्रस्थशब्दस्य स्वरेष्वादेरतो वृद्धवर्जनात्, आदेश्च विकल्पेन विधानाद-भावपक्षेऽस्य रूपस्य सत्वात् अत्र प्रकृतसूत्राप्रवृर्तनं पुवद्भावनिषेधः । कषायेन रक्ता 'रागाट्टो रक्त' ।६।२।१। इत्यणि वृद्धौ ङ्यां च काषायी, सा बृहतिकाऽस्य स काषायबृहतिकः । लोहस्य विकारः लौही, अत्र'विकारे' ।६।२।३०। इत्यण, ईषा-हलयुगयोमध्यस्थितो दण्डः, लोही ईषा यस्य स लोहेषः ॥५५॥
स्वाङ्गान्डोर्जातिाऽश्चामानिनि ।३।२१५६।
स्वाङ्गाद्योङीस्तदन्तोजातिवाची च परतः पुम्वन्न स्यात् नतु मानिनि । दीर्घकेशीभार्यः । कठीभार्यः । शूद्राभार्यः। स्वाङ्गादिति किम् ? पटुभार्यः । अमानिनीति किम्? दीर्घकेशमानिनी। ॥५६॥
स्वाङ्गाद्यो डीरिति--'असह-नत्र -विद्यमान०' ।२।४।३।इति सूत्रेण विहित इत्यर्थः तत्र न स्वमङ्गस्वाङ्गमपितु-अविकारोऽद्रवमित्यादिना परिभाषित