________________
( १८३ )
मेव गृह्यते। दीर्घकेशीभाइति-दीर्घाः केशा:यस्याः सा दीर्घकेशी सा भार्या • यस्येति बहुव्रीहिगर्भो वहव्रीहिः । कठीभार्य इति-कठेन प्रोक्त वेत्यधीते या सा कठी, अत्र प्रोक्तार्थप्रत्ययस्य 'कठादिभ्यो वेदे लुप्' ।६।३।१८३। इति लुप्, अध्ययनार्थप्रत्ययस्य च 'प्रोक्तात्' ।६।२।१२६। इति लुप् ‘गोत्रं च चरणः सह' इत्युक्त जातित्वमिति 'जाते रयान्त०' ।२।४।५४। इति ङीः, सा भार्या यस्य सः । 'शूद्राभार्य-इति शूद्रशब्दस्य सकृदाख्यातनिर्गाह्यत्वे सत्यसर्वलिङ्गत्वरूपं जातित्वं बोध्यम्। पटभार्य इति-पटवी भार्या यस्य सः, दीर्घकेशमानिनीति-स्वभिन्नां कांचिद्दीर्घकेशां मन्यत इति 'क्यङ्मानिपितद्धिते' ।३।२।५०। इति सूत्रेण पृवद्भावः । नन्वत्र न मानिन्शब्द उत्तरपदमपि तु मानिनीशब्द इति 'अमानिनि' इत्युक्ते नात्र पुवद्भावो युक्तः प्रकृतनिषेधप्रवृत्तेरव्याहतत्वादिति चेत् ? न नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्यायाद् लिङ्गबोधक-प्रत्ययविशिष्टस्यापि मानिन्शब्दस्य मानिन्ग्रणेन ग्रहणम् । न च कर्मोपपदादेव मन्धातोणिन्प्रत्ययो भवतीति-स बुदायस्यैव स्त्री-प्रत्ययप्रकृतित्वाद् दीर्घकेशमानिन्शब्दादेव स्त्रीबोधकप्रत्ययः नतु मानिन्शब्दादिति वाच्यम् यतो यो विहितस्तद्विशिष्टस्यैव तेन ग्रहणमित्येतादृशनियमानङ्गीकारात्। अस्तु वा समुदायादेव की:, तथा सति मानिन्शब्दमात्रस्योत्तरपदत्वमव्याहतमेव, समासात्पूर्व स्त्रीप्रत्ययोत्पत्त्यभावात् । ननु डीजात्योः सहैव निषेधेन सहान्वयात् सहोक्तिसत्वेन सूत्रे समासः कस्मात् न कृतः इति चेत्सत्यम्-'असमासनिर्देश: सुखेनार्थबोधार्थः, स्वाङ्गङीजात्यमानिनीति कृते नार्थः सुखेन बोद्ध शक्य इति व्यस्त एव निर्देशः कृत इति ॥५६॥
पम्वत्कर्मधारये ।३।२।५७
परतः स्त्री अनूङ् कर्मधारये सति स्व्येकाक्षं उत्तरपदे परे पुम्वत् स्यात् । कल्याणप्रिया । मद्रकभार्या । माथुरवृन्दारिका । चन्द्रमुखवृन्दारिका । अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका ॥५७॥ ननु 'परतः स्त्री०' ।२।२।४।इति सूत्र णैव कर्मधारयेऽपि पुवद्भावः सिद्धः