________________
( १८४ )
एवेति व्यर्थमिदं पुवद्भावविधानमिति चेत्सत्यम् 'नापप्रियादी' ।३।२।५३। इत्यादिसूत्रः कृतस्य पुंवद्भावनिषेधस्य निवृत्त्यर्थम् एतेन सूत्रण पुनः पुवद्भावविधानमिति । कल्याणी चासौ प्रिया च कल्याणप्रिया । अत्र 'नाप्रियादौ' ।३।२।५३। इति निषेधस्य निवृत्तिः । मद्रिका चासो भार्या च मद्रकभार्या । अत्र 'तद्धिताककोपान्त्यः' ।३।२।५४। इति निषेधस्य निवृत्तिः मथुरायां भवा स्त्री माथरी चासो वृन्दारिका च माथरवृन्दारिका। अत्र 'तद्धितः स्वरवृद्धि०' ।३।२।५५। इति निषेधस्य निवृत्तिः । चन्द्र इव मुखं यस्याः सा चन्द्रमुखी 'असहन ' ।२।४।३८। इति डीः, चन्द्रमुखी चासौ वृन्दारिका च चन्द्र मुखवृन्दारिका । अत्र स्वाङ्गान्डीर्जातिश्चामानिनि' ।३।२॥५६॥ इति निषेधस्य निवत्तिः ॥५७।।
रिति ।३।२।५८ परतः स्त्री अनूङ् रिति प्रत्यये पम्वत्स्यात् । पटुजातीया। कठदेशीया ॥५॥ पदवी प्रकारो यस्याः सा पटजातीया । 'प्रकारे जातीयर्' ।७।२।७५। इति सूत्रेण जातीयर्, अनेन पृव ब्रावः । ईषदसमाप्ता कठी कठ-देशीया 'अतमबादेरीषदसमाप्ते०' ७।३।११। इति सूत्रेणं देशीयर्, अनेन वद्भावः
॥५८॥
त्वते गुणः।३।२।५।
परतः स्त्रयनूङ् गुणवचनस्त्वतयोः प्रत्यययोः पुम्वत्स्यात् । पटुत्वम् । पटु ता । गुणइति किम् । कठीत्वम् ॥५६॥ त्वते० । गुणपदं गुणवाचकपरं, तच्च गुणिनि वर्तमानमिह ग्राह्यम् साक्षादुगुणवाचकस्य स्त्रीत्वाभावात् 'गुणे शुक्लादयः पुसि गुणिलिङ्गास्तु तद्वति' इति स्मरणात् । तथा च गुणवचनशब्देन गुणवाचकत्वेन पूर्व दृष्ट: सम्प्रति गुणोपसर्जनद्रव्यवाचीह गृह्यते । अत्र एव तस्य परतः स्त्रीत्वमप्यु