________________
( १८५ )
पपद्यते, तदाह - परतः स्त्र्यनूङिति । पट्वया भावः पटुत्वम् । पटुता । कठीत्वमिति – कठीशब्दस्य यद्यपि जातिपरत्वेन 'स्वाङ्गान्ङीतिश्चामानिनि' | ३ |२| ५६ । इत्यनेनैव पुंवद्भावप्रतिषेधः प्राप्तः तथापि परत्वादस्य सर्वप्रतिष`धापवादत्वाशयेन प्रत्युदाहरणं बोध्यम् । एवं गुणः इति ग्रहहणाभावे संज्ञाक्रिया शब्दानामपि पुंवद्भावः स्यात् ॥५६॥
च्वौ क्वचित् ।३।२।६०।
परतः स्त्र्यनूङ् ध्वौ क्वचित् पुम्वत्स्यात् । महद्भूता कन्या । क्वचिदिति किम् । गोमतीभूता ॥ ६०॥
अती महती भूतामहद्भूता कन्या । अगोमती गोमती भूता - गोमतीभूता । क्वचिद्रग्रहणात् क्वचिन्नित्यं क्वचिन्न क्वचिद्विकल्पेन पुंवद्भावो भवति ॥ ६० ॥
,
सर्वादयोऽस्यादौ | ३|२| ६१ |
सर्वादिः परतः स्त्री पुम्वत्स्यात् नतु स्यादौ । सर्वस्त्रियः । भवपुत्रः । अस्यादाविति किम् । सर्वस्यै ॥ ६१ ॥
लक्ष्यानुरोधात् 'स्त्र्येकार्थे' इतीह् न सम्बध्यते । सर्वासां स्त्रियः - सर्वस्त्रियः । बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्व सर्वादेरपि भवति - दक्षिणोपूर्वाणाम् । अत्र दक्षिणा चोत्तरा च पूर्वा चेति द्वन्द्व : 'न सर्वादि:' | १|४|१२| इति सूत्रेण सर्वादित्वं निषिध्यते । परत्वात् प्रतिषेधविषयेऽप्ययं प्रवर्तते - सर्वा प्रियाऽस्य सः - सर्वप्रियः । अयं भावः - सर्वाद्यतिरिक्ते कल्याणीप्रिय इत्यादी 'नाप्रियादी' | ३ |२| ५३ | इत्यादयः प्रतिषेधाः सावकाशाः, प्रकृतसूत्रं च सर्वस्त्रिय इत्यादौ सर्वा प्रिया यस्य स सर्वप्रिय इत्यादौ चोभयोः प्राप्तिरिति 'स्व' | ७|४| ११६ | इति परिभाषाबलात् परत्वात्तत्रायं प्रवर्तते । किञ्च - 'अनन्तरस्यैव विधिनिषेधो वा' इति न्यायादनन्तरस्य 'परतः स्त्री०' | ३ | २|४६ | इत्यादिशास्त्रस्यैव स प्रतिषेधो