________________
( १७४ )
वास्तविकः | अग्निश्च वरुणश्च देवतेऽस्या इति विग्रह एव समासा - नन्तरं वाक्यावयवविभक्तं लुंपि एकपद्ये सति विग्रह एव समासानन्तरं वाक्यावयवविभक्तेपि सति देवतार्थे तद्धितप्रत्यये उभयदवृद्धी सत्याम नेनानिशब्दस्कारस्येकार इत्येव साध्वी प्रक्रिया । अन्यथाऽग्नीवरुणाविति कृते ईकारप्रवृत्तौ जातायां कथं तदपवादो संगच्छेतेति । अग्नीवरुणाविति अग्निश्च वरुणश्चेति इतरेतरयोगे द्वन्द्वः । अग्नाविष्णू देवताऽस्य 'देवता' ।६।२।१०१ । इत्यण्, 'देवतानामात्वा०' | ७|४|२८| इत्युभयपदवृद्धिः ||४३||
दिवो द्यावा | ३ |२| ४४ |
देवताद्वन्द्वे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभूमी ॥ ४४ ॥ देवताद्वन्द्व इति दिवो भम्यादेश्च तत्तल्लोकवाचकत्वेऽपि देवतात्वेन हवित्यागोद्देश्यत्वेन वेदे श्रवणान्न देवताद्वन्द्वत्वहानि: । द्यावाभूमीतिatravr: । भूमिः प्रसिद्ध व मनुष्य - निवासभूता ॥ ४४॥
दिवस-दिवः पृथिव्यां वा । ३ । २।४५ |
देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ । दिवः पृथिव्यौ । द्यावापृथिव्यौ ॥ ४५ ॥
1
द्यौश्च पृथिवी च दिवस्पृथिव्यो- दिवः पृथिव्यो । ननु दिवस्पृथिव्यावित्यत पदान्तस्य सस्य कथं न विसर्ग इति चेत् सत्यम् दिवः इति विस गन्तिस्य निर्देशात् 'दिवसिति' इति सकारस्य रूत्वं न भवति । अयंभावः - यदीहापि विसर्गः स्यादेव तर्हि पृथक् दिवः इति विसर्गान्तः पाठः व्यर्थः स्यादितिविसर्गान्तादेश-विधानबलात् सकारस्य रुत्वं न कल्पनीयमेव । परे तु 'दिवस' इत्यकारान्तमा देश विधायाकारस्योच्चारणमात्रप्रयोजनत्वेनाप्रयोगित्वमास्थाय तस्येत्संज्ञया लोपं विदधति विसर्गे प्राप्तेचा कारलोपस्य स्थानि-वद्भावेन तद्द्वारणं कुर्वन्ति । वेदे च सर्वत्र सकारसहित एव पाठ इति कथयन्ति । यद्यपि वृत्तिकाराः पदकाराश्च 'दिवः पृथिव्योः' इत्यादिविस