________________
( १७३ )
अग्नीवरुणौ । देवता-द्वन्द्व इत्येव । अग्निसोमौ बटू ॥४२॥ षोमशब्दः न पृथक् शब्दः किन्तु सोमशब्द एव । कृतषत्वनिर्देशादीकारयोगे षत्वं निपात्यते । विशेष्य षत्वविधाने वाक्य-भेदापत्तः, पृथक्-सूत्रविधाने च स्पष्टमेव गौरवमिति कृतषत्वनिर्देश एव कृतः । अग्निश्च सोमश्चेति इतरेतरयोगद्वन्द्वेऽनेन ईत्वे षत्वे च रूपनिष्पत्ति: । अग्निसौमौ बटू इतिएको ऽग्निनामा बटुः अपरश्च सोमनामा तयोरिह द्वन्द्वः । नायं देवताद्वन्द्वः किन्तु मनुष्यद्वन्द्वः इति न भवतीत्वम् । ईकारसंनियोगे षत्वविधानात् 'सन्नियोगशिष्टानामेकापायेऽयतरस्याप्यपायः' इति न्यायादीत्त्वनिवृत्ती षत्त्वमपि निवर्तते ॥४२॥
इद्धिमत्यविष्णौ ।३।२।४३। विष्णुवर्जे वृद्धिमत्युत्तरपदे देवताद्वन्द्व अग्नेरिः स्यात् । आग्निवारुणीमनड्वाहीमालभेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आग्नावैष्णवं चरु निर्वपेत् ॥४३॥ नन्वग्निशब्दे इकारः स्वत एवास्ति तस्य पुनः इकारविधानं किमर्थमिति चेत् सत्यमयमी-काराऽऽकारयोरपवादः इति अग्नीवरूणो देवताऽस्याः सा आग्नितारुणी देवतार्थेऽण 'देवतानामात्वादौ' ।७।४।२८। इति पूर्वपदस्योत्तरपदस्यः स्वरेष्वादे स्वरस्य वृद्धि-र्भवति । ननु अग्निश्च वरुणश्च अग्नीवरुणावित्यत्र प्रत्ययोत्पत्तितः पूर्वमेवेत्वमात्वं वा प्राप्नोति, प्रकृतसूत्रस्य च तद्धितप्रत्ययनिमित्तक-वृद्धिनिमित्त-कत्वेन बहिर्भ तनिमित्तकत्वाद् बहिरङ्गत्वमिति तदपेक्षयाऽन्तरङ्गयोरीकाराकारयोः प्रवृत्ती नास्त्यस्य सूत्रस्यावकाश इत्यपि शङ्कितु शक्यत इति चेत्सत्यम्, 'उपसंजनिष्यमाननिमित्तोऽप्यपवाद: उपसंजात-निमित्तमप्युत्सर्ग 'बाधते' इति न्यायेन 'परित्यज्यापवाद-विषयमुत्सर्गोऽभिनिविशते' इति न्यायेन वा नेकाराऽऽकारयोः प्रवृत्तिरिति विज्ञेयम् । किञ्च अग्नीवरुणो देवता ऽस्येति लौकिकं वाक्यमात्रम् किन्तु समास-तद्धितयोः सहैव विग्रहो