________________
( १७२ )
वेदसहश्रुताऽवायुदेवतानाम् ॥३॥२॥४१॥ एषां द्वन्द्वे पूर्वपदस्योत्तरपदे आः स्यात् । इन्द्रासोमौ । वेवेति किम् । ब्रह्मप्रजापती । सहेति किम् ? विष्णुशकौ । श्रुतेति किम् ? चन्द्रसूर्यो । वायुवर्जनं किम् ? वाय्वग्नी । देवतानामिति किम् ? यूपचषालौ ॥४१॥ वेदसहेत्यादि-पूर्व वेदसह-श्रुतशब्दयोः सप्तमीतत्पुरुषः, 'वायुनंत्रा बहुप्रीही समस्यते । न विद्यते वायुर्यासु ता अवायवः' अवायवश्च ताः देवताः-अवायुदेवता: वेदसहश्रुताः अवायुदेवताः वेदसहश्रुतावायुदेवता: तासामिति विग्रहः । वेदे सहश्रुतानां वायुजितदेवतानां द्वन्द्व पूर्वपदस्योत्तरपदे परे आकारोऽन्तादेशो भवतीत्यर्थः । इन्द्रश्च सोमश्च,इन्द्रासोमो,ब्रह्मप्रजापतीतिब्रह्मण एव मानसिकाः पुत्राः प्रजापतिःवेन प्रसिद्धाः, ब्रह्मापि प्रजापतिनाम्ना प्रसिद्धः 'स्रष्टा प्रजापति-धाः' इत्याद्यमरकोशात् । विष्णुशकाविति-एती वेदे पृथक पृथग्धविर्भागित्वेन श्रतो न तु सह हविर्भागित्वेन । चन्द्रसूर्याविति-एतौ वेदे सहख्यातावपि नैवं रूपेण श्रुतावपि तु सूर्याचन्द्रमसावित्यादिरूपेण । वाय्वग्नीति-वायुवर्जन सामान्येन द्वन्द्वस्यैव विशेषणम्, वायूजिततादृशदेवतानां द्वन्द्व इत्युक्त्या ,वायोः पूर्वपदत्ने उत्तरपदत्वे वोभयथापि नात्वप्रवृत्तिः तत्र वायोरुत्तरपदत्वे 'अग्निवायू' इति पूर्वपदत्वे च 'वाय्वग्नी' इति । यूपचषालाविति-यूपो यागसमाप्तिचिह्नभूतः स्तम्भविशेषः खदिरादिनिर्मितः, चषालो वलयाकारो लोहमयः काष्ठमयो वा यूपमध्ये देयः पदार्थः एतावपि वेदे सहश्रुतौ किन्तु देवतात्वाभावन्निात्र भवत्यात्वम् ।।४१।।
ई: षोमवरुणे ऽग्नेः ॥३॥४॥ वेबसहश्रुतावायुदेवतानां द्वन्द्व षोमे वरुणे चोत्तरपदेऽग्नेरीः. स्यात् । षोमेति निर्देशादीयोगे षत्वं च । अग्नीषोमौ ।