________________
( १७१ )
-
पितृनिरूपितत्वाभावात् तथापि पिता पितत्वेन न भ्रातरमपेक्षते पितत्वस्य 'पुत्रनिरूपिताया एव सत्त्वात् तस्यायं पुत्र इति कथिते स्वत एव स पितेत्यायातीति नास्ति पितृ-भ्रात्रोः निरूप्यनिरुपक- भावसम्बन्ध इति । यद्येवं तहि कथं होतापोतारो, मातापितरौ ? नह्यत्र परस्पापेक्षस्तथासम्बन्धोऽपि तु यजमानपुत्रापेक्षः । उच्यते - अत्रापि होत्रादीनां परस्परसम्बन्धोऽस्त्येव ते हि स्वकर्मणि यागे प्रजने च सहिता एव वर्तन्ते तत्कर्मनिमितश्चायं व्यपदेश इत्यदोषः । अयं भावः - होतापोतारावित्यत्र होता यजमानस्यैवेति तेनैव विद्याया: सम्बन्ध: पोताऽपि ऋत्विग्विशेषाद् यजमान सम्बद्ध एवेति तयोः परस्परमसम्बन्धेऽपि होतापोत्रोः कर्म यागः तत्र च तौ सहैव प्रवर्तते इति तयोः परस्परमेक कर्मकारित्वरूपसम्बन्धोऽस्त्येवेति न तत्र पूर्वप्रतिपादित नियमव्यभिचारः एवं मातापितरावित्यत्र मातृत्वं न पितमिरुप्यं नवा पितृत्वं मातृनिरूप्यं किन्तूभयमपि पुत्रनिरुपितमेव पुत्रस्यैव माता, तस्यैव च पितेति प्रतीतेः मातापित्रोः परस्परं सम्बन्धाभावेऽपि मातापित्रोः पुत्रस्योत्पादने तवरणादिकेच कर्मणि तयोः सहभावेन प्रवर्तनादेककर्मकारित्वरूपः सम्बन्धोऽवाप्यत्येवेति न पूर्वप्रतिपादित नियमव्यभिचारः । तेषां च तत्तच्छन्द प्रतिपाद्यत्वमपि तत्कर्मनिमित्तमेवेति स्वप्रवृत्तिनिमित्तत्वस्यैक्यरूप-सम्बन्धोऽपि तेषामस्त्ये वेति न पूर्वोक्तदोषशङ्का ॥ ३६ ॥
1
पुत्रे | ३ | २|४०|
पुत्रे उत्तरपदे विद्यायोनिसम्बन्धानामृदन्तानां द्वन्द्वे आः स्यात् । मातापुत्रौ । होतापुत्रौ ॥४०॥
पूर्वसूत्रस्यन्तामेव द्वन्द्वे प्रवृत्त्या पिता-पुत्रौ इत्यादिषु तदप्रवृत्तिरित्य यमारम्भः । इह समस्यमानानां पदानां परस्परं विद्यायोनिसम्बन्धः इत्यर्थो न स्वीकृतः, होतापुत्रावित्युदाहरणात् अत्र हि होतुः पुत्रस्य च न परस्परं विद्यासम्बन्धः न वा योनिसम्बन्धः । यद्यपि माता-पुत्रादीनामिव होतानावित्यस्य प्रयोगस्य लोकविश्रुतत्वं न प्रतीयते तथाप्याचार्योंदाहरणेन तस्य सत्त्वे विसंवादस्यानाशङ्कनीयत्वम् ॥४०॥