Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
________________
( १७० )
न तु समासाद्यावयवभूतपदात्परत्वमिति वृत्ती पूर्वपदस्येति कथनमपि उत्तरपदाव्यवहित-पूर्वपदपरम् न तु सभासाद्यावयवरूढपूर्वपदपरम् । अथ क्वचित्त्रयाणामपि पदानामात्वं दृश्यते यथा-होतापोतानेष्टोद्गातारः तत्कथमिति चेत्सत्यम् द्वयोद्वं योः द्वन्द्वेः भविष्यति । अयमर्थः-पूर्व होता च पोताच होतापोतारौ । नेष्टा च उद्गाता च नेष्टोद्गाताराविति द्वयो-ढे योद्धन्द्वं विधाय ततो होतापोतारी च नेष्टोद्गातारौ चेति विगृह्य द्वन्द्व कृते मध्यमस्य पोतृशब्दस्याप्युत्तरपदभूतनेष्टोद्गातृशब्दा-व्यवहितपूर्वत्वमिति तस्याप्यात्वे त्रयाणामप्यात्वं सम्पद्यत इति क्वचिन्मध्यमयोरेवात्वं दृश्यते यथा होतृगोतानेष्टोद्गातारः तत्र तु होता च पोता च नेष्टोद्गातारौ चेति विग्रहः । अयमर्थः-अन त्रयाणामेकदा द्वन्द्वः इति मध्यमपदस्य पोतशब्दस्यैव उत्तरपदाव्यवहितपूर्वपदत्वमिति तस्यैवात्वं भवति न तु होतृशब्दस्य मध्यमेन व्यवधानादिति । नेष्टा-नायकः सोऽ पि ऋत्विग्विशेषः, उद्गाता-उच्चैर्गानकर्ता यज्ञे सामवेदसम्बन्धिकमकर्ता च । विद्यायोनिसम्बन्धश्चेह प्रत्यासत्तेः समस्यमानानामृदन्तानामेव परस्परं द्रष्टव्यो न येन केनचित् । अयं भावः-सम्बन्धः द्वयो भवति एकत्र तदभावात, एवं च स सम्बन्धः कयोद्वं योाह्यः इत्यपेक्षायां समस्यमानपदयोरेव प्रत्यासन्नत्वात् तयोरेव तेषामेव वा ग्राह्यः तेनेह न भवति-चैत्रस्य स्वसृदुहितरौ। नात्र स्वसदुहित्रोः परस्परं सम्बन्धः, न हि स्वसा चैत्रस्य स्वसा भवन्ती दुहितरमपेक्षते दुहिता वा स्वसारमिति । अयं भावः-इदं सूत्र द्वन्द्व, प्रवर्तते द्वन्द्वश्च सहोक्तिमापन्नानामेव सहोक्तिश च यथाकथञ्चित्परस्परसम्बन्धेऽ स्त्येव स च सम्बन्धोऽ न्यत्र यादशस्तादशोऽस्तु प्रकृते विद्याकृतो योनि कृतो वा ग्राह्य इत्येव विवक्षितम्, इह च स्वस दुहितरावुभे अपि चैत्रमेवापेक्षेते तस्यैव स्वसा, तस्यैव च दुहिता, नहि दुहितुरियं स्वसा नवा स्वसुरियं दुहितेति तयोः परस्परमसम्बन्धात्प्रकृतसूत्राप्राप्त्या नात्वमिति । यद्य वं तर्हि चैत्रस्य पित-भ्रातराविति कथम्, ? अस्ति ह्य वात्र परस्पर-संबंध-संभावना । अयं भाव:-यद्यपि पिता भ्राता च चैत्रमपेक्षेते तथापि पितृभ्रात्रोर प्यस्त्येव स्वाभाविकः परस्परं जन्यजनकभावसम्बन्धः ततश्च परस्परसम्बन्धे सत्यपि कथं नात्वम् ? उच्यते यद्यपि चैत्रस्य भ्राता भ्राता भवन् पितरमपेक्षते चैत्रपितृजनितस्यैव चैत्र भ्रातृत्वात्, तथापि पिता-पिता भवन्न भ्रातरपेक्षते । अयं भावः-यद्यपि चैत्रस्य यो भ्राता स चैत्रनिरूपितभ्रातृत्वद्वारैव पितरं स्वजनकत्वेनापेक्षते न तु स्वतः, केवलस्य भ्रातृत्वस्य
Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576