Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 507
________________ ( १६४ ) तत्त्वाख्यानमेतन्न तु क्षेपः । तत्त्वं यथार्थस्थितिः तस्याख्यानं कथनमेतत् न निन्दायां तात्पर्यम् । अयं भावः-यश्चौरत्वेन ख्यात एव, तस्य कुलम् । न तत्सम्बन्धान्निन्दित-त्वमपि तु वस्तुस्थितिरेव तादृशीति न क्षेपः ॥३०॥ पुत्र बा ३२॥३१॥ पुत्र उत्तरपदे क्षेपे षष्ठ्या लुब् वा न स्यात् । दास्याः पुत्रः । दासीपुत्रः ॥३१॥ दास्याः पुत्र:-दासीपुत्रः-दासस्य नायं पुत्रोऽ-पि तु दास्याः, तथा नानुचितस्वामिसम्बन्धजातत्वं तस्य प्रतीयत इति क्षेपः । पूर्वेण नित्यं प्राप्ते विकल्पः । ॥३१॥ पश्यद्वाग्दिशो हरयुक्तिदण्ड ।३।२॥३२॥ एभ्यः परस्याः षष्ठ्या यथासंख्यं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः ॥३२॥ पश्यतोहर इति-स्वर्णकार एतेन शब्देन ख्यातः । स' हि पश्यत एव लोकस्याभूषणादिनिर्माणकर्मणि सुवर्णादिकं धाष्टयन हरति, अल्पमूल्यं द्रव्यान्तरं तत्र क्षिप्त्वा बहुमूल्यं द्रव्य सुवर्णादिकं चोरयतीति प्रसिद्धः, अत्र बहूनामपि पश्यतां हरणे पश्यतो-हरः इत्येव प्रयोगोऽ भिधानसामर्थ्यात् । यत्र च बहुत्वं विवक्षितं तत्र समास एव न भवतीत्यपि शब्दशक्तिमनुरुध्य कथयितुं शक्यते इत्यपि केचित् । पश्यन्तं जनमनादत्य-नाय ज्ञात शक्नोति, ज्ञात्वाऽ पि न तत्प्रमाणयितु शक्नोतीत्यादि बुद्धया स हरतीति 'षष्ठी वाऽ नादरे' ।२।२।१०८ इत्यनादरे षष्ठी, तस्याः समासः । पश्यन्तं जनमित्यत्र जनमिति सामान्यवाचिशब्दप्रयोगः निर्मीयमाणभूषणस्वामिनमन्य वोदासीनजनं पश्यन्तमनादृत्य हर्तेत्यर्थलाभः । अय शब्दः स्वर्णकारे प्रायः प्रयुज्यते । अन्ये त्वतिचतुरचोरेऽ प्ययप्रयोग इत्याहुः । वाचोयुक्तिः इति-विषयविषयिभावरूप-सम्बन्धे षष्ठी । वाग्विषय सयुक्ति

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576