________________
( १६४ )
तत्त्वाख्यानमेतन्न तु क्षेपः । तत्त्वं यथार्थस्थितिः तस्याख्यानं कथनमेतत् न निन्दायां तात्पर्यम् । अयं भावः-यश्चौरत्वेन ख्यात एव, तस्य कुलम् । न तत्सम्बन्धान्निन्दित-त्वमपि तु वस्तुस्थितिरेव तादृशीति न क्षेपः ॥३०॥
पुत्र बा ३२॥३१॥
पुत्र उत्तरपदे क्षेपे षष्ठ्या लुब् वा न स्यात् । दास्याः पुत्रः । दासीपुत्रः ॥३१॥ दास्याः पुत्र:-दासीपुत्रः-दासस्य नायं पुत्रोऽ-पि तु दास्याः, तथा नानुचितस्वामिसम्बन्धजातत्वं तस्य प्रतीयत इति क्षेपः । पूर्वेण नित्यं प्राप्ते विकल्पः । ॥३१॥
पश्यद्वाग्दिशो हरयुक्तिदण्ड ।३।२॥३२॥ एभ्यः परस्याः षष्ठ्या यथासंख्यं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः ॥३२॥ पश्यतोहर इति-स्वर्णकार एतेन शब्देन ख्यातः । स' हि पश्यत एव लोकस्याभूषणादिनिर्माणकर्मणि सुवर्णादिकं धाष्टयन हरति, अल्पमूल्यं द्रव्यान्तरं तत्र क्षिप्त्वा बहुमूल्यं द्रव्य सुवर्णादिकं चोरयतीति प्रसिद्धः, अत्र बहूनामपि पश्यतां हरणे पश्यतो-हरः इत्येव प्रयोगोऽ भिधानसामर्थ्यात् । यत्र च बहुत्वं विवक्षितं तत्र समास एव न भवतीत्यपि शब्दशक्तिमनुरुध्य कथयितुं शक्यते इत्यपि केचित् । पश्यन्तं जनमनादत्य-नाय ज्ञात शक्नोति, ज्ञात्वाऽ पि न तत्प्रमाणयितु शक्नोतीत्यादि बुद्धया स हरतीति 'षष्ठी वाऽ नादरे' ।२।२।१०८ इत्यनादरे षष्ठी, तस्याः समासः । पश्यन्तं जनमित्यत्र जनमिति सामान्यवाचिशब्दप्रयोगः निर्मीयमाणभूषणस्वामिनमन्य वोदासीनजनं पश्यन्तमनादृत्य हर्तेत्यर्थलाभः । अय शब्दः स्वर्णकारे प्रायः प्रयुज्यते । अन्ये त्वतिचतुरचोरेऽ प्ययप्रयोग इत्याहुः । वाचोयुक्तिः इति-विषयविषयिभावरूप-सम्बन्धे षष्ठी । वाग्विषय सयुक्ति