________________
( १६३ )
स्वण्डिले वर्तते इति विग्रहः 'व्रताभीक्ष्ण्ये' ५११५४॥ इति णिन्प्रत्ययः । सांकाश्ये सिद्धः-सांकाश्यसिद्धः। 'सुपन्थ्यादेयः' ।६।२।८४। इति ज्यः। समे तिष्ठतीति-समस्थः । 'स्थापास्नात्र: कः ।५।१।१४२। इति कः । सर्वत्र 'तत्पुरुषे कृति' ।३।२।२०। इत्यलुप् प्राप्तः सोऽनेन निषिध्यते । अथ तत्पुरुषे कृति' ।३।२।२०। इत्यत्र बहुलग्रहणात् कुत्रचित्विकल्पः, कुत्रचित् नित्यम् कुत्रचित् निषेधः इति सर्व सेत्स्यतीति सूत्रपञ्चकं व्यर्थमिति चेत्सत्यम् ‘शयवासि०' ।३।२।२५। वर्ष-क्षर-वरा.' ।३।२।२६।इतिच सूत्राभ्यां विकल्पेनालुविधानं नित्यमेवा लुप् प्रकृतसूत्रेण च निषेध:एतत्सर्वं तत्पुरुषे कृति'।३।२।२०।इति सूत्रस्यैव प्रपञ्च इति । ते वैः विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रप्रञ्चश्चेति । अयामाशयः 'तत्पुरुषे कृति' ।३।२।२०। इति सूत्रविधेयस्यैवार्थस्य मन्दशिष्यबुद्धिबोधाय प्रपञ्चनं विस्तरेणाख्यानमिति यावत् । ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च' अयं न्यायानुसारी वाग्विशेषः। वैशब्दो हेत्वर्थक. यतः-येषां विधीनों लक्षणं-संक्षिप्य कथ्यते, प्रपञ्चो विस्तरेणाख्यानं च क्रियते ते विधयः सुसंगृहीता-शोभनप्रकरणे शिष्यैर्शाता भवन्ति, केवलसंक्षेपाख्यानेन न सर्वेषां बोद्धणां हृदयङ्गमो विधिर्भवति प्रपञ्चरूपेणाख्यानमप्यावश्यकमिति ज्ञेयम् ॥२६।।
षष्ठयाः क्षेपे ।३।२॥३०॥ उत्तरपदे . परे क्षेपे गम्ये षष्ठया लुब् न स्यात् । चौरस्यकुलम्
॥३०॥
क्षिप्यते प्रतिष्ठायाः प्रच्याव्यतेऽ-नेनेति क्षेपो निन्दा, निन्दया जनः क्षिप्यते-लोकप्रतिष्ठया प्रच्युतो भवति, अथवा प्रतिष्ठाया एव प्रच्यावनं क्षेप: । चौरस्य कुलमिति-चौरसम्बन्धात् कुले निन्दितत्वं प्रतीयते । ननु चौरकुलमित्यपि प्रयोगो दृश्यते स कथमिति-चेत्सत्यम्