________________
( १६२ )
अपो ययोनिमतिचरे ।३।२।२८। अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ च उत्तरपदे लुब न स्यात् । अप्सव्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः ॥२८॥ आसु भावः अप्सव्य, 'दिगादित्वाद् ‘दिगादिदेहांशाद्यः' ।६।३।१२४। इत्यनेन यप्रत्ययः ‘अस्वम्भुवोऽव्' ।७।४।७०। इत्यनेनोकारस्य 'अव्' आदेशः। अप्सु योनि उत्पत्तिर्यस्य स अप्सुयोनिः उष्ट्रमुखादित्वाद् ज्ञापकाद् वा समासः ॥२८॥
नेसिद्धस्थे ।३।२।६।
इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोनं लुब् न स्यात् । भवत्येवेत्यर्थः । स्थण्डिलवतॊ । साङ्काश्यसिद्धः । समस्थः ॥२६॥ इन्प्रत्ययान्त इति-यद्यपि संशोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य' इति ज्ञापकसिद्धन्यायादवेन्ग्रहणे तदन्तग्रहणं न स्यातथापि केवलस्येन्प्रत्ययस्य सप्तम्यन्तेन सह संबन्धो न संभवति इत्यसं. भवादेवेहाप्यन्तग्रहणम्, तथाहि-इन्प्रत्ययो द्विविध: कृत् तद्धितश्च तत्र कृद् इन्प्रत्ययः धातोविधीयते इति सप्तम्यन्तात्परत्वासंभवः । तद्धित इन्प्रत्यय प्रथमान्ताद्विधीयत इति तत्रापि सप्तम्यन्तापरत्वासंभवः एव । भवत्येवे त्यर्थः इति-अथ नमोनमस्ते सततं नमो नमः इत्यादौ नमः-शब्दादीनामसकृत्प्रयोगे स्वार्थद्रढनमेव दृश्यते तथाऽत्रापि स्वार्थद्रढनं किं न स्यादिति चेतु सत्यम् 'द्वौ नत्रौ प्रकृतम) बोधयत' इति न्यायादन निषेधस्य निषेध इति प्रतीतो लुपो विधानमित्यायाति । यद्यपि चात्रलुपः स्वरूपेण कथनमेव युज्यते तथापि भङ्गयन्तरेण प्रतिपादनादत्र दाद मायाति। स्थण्डिलवर्तीति