________________
( १६१ )
बिले शेते इति बिलेशयः - आधा रात्' | ५|१|१३७ | इति सूत्र ेण अप्रत्ययः । बिलेशयः सर्पः । यद्यपि मूषकादिरपि तथाभूतस्तथापि सर्पे एवास्य प्राचुर्येण प्रयोगः । वने वसतीत्येवं शीलः वनेवासी 'अजाते: शीले' | ५ | १|१५४ । इति णिन् । वसनं वासः । पूर्वाह णशय:, इति पूर्वाह णशेते इति पूर्वाह, शयः । बहुलाधिकारात् मनसिशयः कुशेशयमिति नित्यं लुबभावः । मनसिशयः इति कामपर्यायः । कुशे जले शेते इति व्युत्पत्त्या कुशेशयमिति कमलस्य नाम । अनयोः सञ्ज्ञाभङ्गभिया नित्यमेव सप्तम्या अलुप् ||२५||
वर्षक्षरवराप्सरः- शरोरोमनसो जे | ३ | २|२६|
एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् वा न स्थात् । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । वरेजः । वरजः । अप्सुजम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । मनोजः ॥ २६ ॥
वर्षण वर्षः, क्षरतीति क्षरो मेघो जलं च, त्रियत इति वर श्रेष्ठः, अप्शब्दो जलवाची, सरो जलाशय विशेोषः शृणाति हिनस्तीति शरो बाणस्तृणविशेषश्च, उरो वक्षस्थलम्, मनो मननक्रियमन्तः कर्णम् । वर्षे जातः वर्षेजः इत्यादि एवं सर्वत्र । 'सप्तम्याः | ५|१|१६|| इति भूतार्थे ड: । 'ङस्युक्त' कृता' | ३|१|४६ | इति समासः ||२६||
प्रावृवर्षाशरत्कालात् ॥ ३ ॥२॥२७॥
एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् । दिविजः । प्रावृषिजः । वर्षासुजः । शरदिजः । कालेजः ॥ २७॥
पूर्वसूत्रेण सहयोगा करणाद-वेति निवृत्तम् द्यौराकाशः प्रावृडवर्षाशब्दो शरतुवाचकः । सप्तमीति सामान्येनोच्चारणाद् बहुवचनस्यापि लुपो निषेधात् । वर्षासुजः इति ऋतुवाचकः वर्षाशब्दः सदा बहुवचन एवं प्रयुज्यते ॥२७॥