________________
। १६० )
चेत्सत्यम् तन-तर-तमानां साहचर्यात्परस्य कालशब्दस्यस्वरूपरत्वे निर्णीते पूर्वोत्तरोभयपदत्वं कालशब्दस्य न दृष्टमिति न्यायत एव पूर्वस्य कालशब्दस्यार्थपरत्वं विज्ञास्थत इति बुद्धया कालनामग्रहणं न कृतमिति वृत्तिकृत् स्पष्टयति-कालवाचिन इति । अह्नः पूर्वो भागःपाङ्गः, सर्वांश०' ७।३।११८। इत्यनेनाट अह्नः इत्यादेशश्च 'अतोऽह्नस्य' ।२।३।७३। इत्यनेन णत्वम् । पूर्वाह णे भव:-'पर्वाह्णापराह्णात् तनट' ।६।३८ । इति तनट । द्वयोरतिशयेन पूर्वाह्न इति पूर्वाह णेतराम् पूर्वाह्नतरे'द्वयोविभज्ये चतरप्' . . ।७।३।६। इति तरप् ततश्च सप्तभ्या अलुप्-पक्षे सप्तम्यर्थस्योक्तत्वात् समुदायात् प्रथमैव भवति । लुप्पो तु सप्तम्यर्थस्य प्रतिपत्त्यर्थं समुदायात्सप्तमी प्रयुज्यते । एवं बहूनां मध्ये प्रकृष्टे पूर्वाह णेतमाम् पूर्वह णेतमे 'प्रकृष्टेतमप्' ।७।३।५। इति तमप्, शेष पर्ववत् । द्वयोर्बहूनां वा मध्ये प्रकृष्टे शुक्ले शुक्ल-तरे शुक्लतमे । दृयोः प्रकृष्टायां रात्री रात्रितरायाम् । तनोतेस्तरतेस्ताम्यतेश्चाचि प्रत्यये तनतरतमशब्दा अपि सिध्यन्ति किन्तु 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव' इति न्यायादत्रं प्रत्ययस्यैव ग्रहणम् । नवाऽखित्कृदन्ते राने' ।३।२।११६। इत्यत्रान्तग्रहणम् ‘उत्तरपदाधिकारे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्य' इति न्यायांशं ज्ञापयति तेनात्र तन-तर-तम प्रत्ययानां स्वरूपेणैव ग्रहणं भवति न तु 'प्रत्ययग्रहणे तदन्तस्य ग्रहणम् इति न्यायात्तनाद्यन्तानाम् । न चैवं 'न नाम्येक०' ।३।२।६। इत्यत्र 'तत्पुरुष कृति' ।३।२।२०। इत्यादौ च तदन्तग्रहणाभावे कथं तत्र तत्र तदन्तार्थलाभ इति वाच्यम् एतादृशेषु खिन्मात्रस्य कृन्मात्रस्य वोत्तरपदत्वाभावेन सूत्रवैयर्थ्यसंभावनया तदन्तग्रहणस्यावश्यकत्वाल्लक्ष्यानुरोधाल प्रकृतनिपमाप्रवृत्तेः, एवं च प्रकृतनियमे सति संभवे इति योजनीयमिति फलति । ॥२४॥
शयवासिवासेष्वकालात् ॥३॥२॥ १५॥ मकालवाचिनोऽव्यञ्जनात्परस्याः सप्तम्या एकूत्तरपदेषु लुब वा न स्यात् । बिलेशयः । बिलशयः । वनेवासी। वनवासी। प्रामेवासः । ग्रामवासः । अकालादिति किम् । पूर्वाणशयः । ॥२५॥