________________
( १५६ ) .
भाषितं ग्राह्यम् । कण्ठे कालोऽ स्य कण्ठेकालः उष्ट्रमुखादित्वात्समासः । मूनि शिखाऽस्य मस्तके शिखाऽस्य मूर्द्ध शिख:, मस्तकशिख: । मुखे कामो यस्थ मुखकामः क्लीब एवमुच्यते तस्य मुख एव कामजव्यवहारस्य कामशास्त्र पठितत्वात् । विशेषणतयाऽ-पीदं प्रयुज्यते यः किल स्वकामं वक्तय व न तत्पूरणाय प्रयस्यति स एवं विशिष्यते ॥२२॥
बन्धे घजि नवा ।३।२।२३॥
बन्धे घबन्ते उत्तरपदे अद्व्यंजनात्परस्याः सप्तम्या लुब् वा न स्यात् । हस्तेबन्धः। हस्तबन्धः। चक्रेबन्धः । चकबन्ध । घनीति किम् । अजन्ते हस्तबन्धः ॥२३॥ हस्ते बन्धो, हस्ते बन्धोऽस्येनि वा हस्तेबन्ध:, हस्तबन्धः । 'व्यञ्जनाद् पत्र ।५।३।१३२। इति सूत्रेण करणे घन 'भावाकोंः ।५।३।१८। इति सूत्रेण वा । हस्तबन्ध इति-बध्नातीति 'अच' ।।१।४६। इत्यच् । पूर्वसूत्राद् 'स्वाङ्गाद्' इति नानुवर्तते तेंन स्वाङ्गास्वाङ्गाच्चायं विकल्पः । अनुवर्तने तू 'चक्र बन्ध चक्रबन्ध, इति न स्यात्।।२३।।
कालात्तनतरतमकाले ।३।२।२४। अव्यञ्जनान्तात्कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात्। पूर्वाह णेतनः। पूर्वाह णेतनः । पूर्वाहणेतराम् । पूर्वाह्नतरे। पूर्वाह णेतमाम् ।पूर्वाह णेतमे। पूर्वाहणेकाले । पूर्वाह्नकाले । कालादिति किम् । शुक्लतरे । शुक्लतमे । अद्वयञ्जनादित्येव । रात्रितरायाम् ।।२४।।
सूत्रे प्रथमः कालशब्दोऽर्थप्रधानःद्वितीयःशब्दप्रधानस्तत्र चाचार्याणांव्याख्यानमेव मूलम् । ननूत्तरस्य कालशब्दस्य ग्रहणार्थंकालनामग्रहणं कर्तव्यमिति