________________
( १५८ )
नाम्नीत्यस्यासंबन्धः सूचितः। स्तम्बे रमते स्तम्बेरमः-'शोकापनुद०' .. ।५।१।१४३॥ इति कप्रत्ययान्तनिपातनम् । भस्मनि-हुतमिति-भस्मनि ... हुतमिवेत्यर्थः यथा भस्मनि हुतं न फलाय कल्पते तथोपमेय-कार्य निष्फलमित्यर्थः । धन्वनि मरुदेशे कारकाः यस्य स-धन्वकारकः । 'न सप्तमी० ॥३।१।१५५। इति ज्ञापकादुष्ट्रमुखादित्वाद्वा समासः । कुरुषु । चरतीति-कुरुचर: 'चरेष्ट: ।५।१।१३३) इति टप्रत्ययः-अत्रोदन्तात्परा सप्तमीति तस्या लुपो न निषेधः । बहुलमत्रानुवर्तते ॥२०॥
मध्यान्ताद् गुरौ ।३।२।२१॥ आभ्यां परस्याः सप्तम्या गुरावुत्तरपदे लुब् न स्यात् । मध्येगुरुः । अन्तेगुरुः ॥२१॥ गुरावित्युक्तत्वात् 'कृति' इत्यस्य न सम्बन्धः पृथग्योगाच्च 'तत्पुरुषे' इत्यस्यापि न संबन्धः तेन सामान्यतः उत्तरपदे निषेधोऽ-यम् तेन बहुव्रीहावपि निषेधो भवति-मध्ये गुरुय॑स्येत्यादि । अत्र सप्तम्या अलुब्विधानसामदेिव तत्पुरुषः, 'सप्तमी शौण्डाद्य:' ।३।१०८। इति सत्रस्थबहुवचनाद्वा । अत्रापि बहुलमित्यस्य सम्बन्धाद् मध्यगुरु; अन्तगुरुरित्यन्ये । लक्षणानां लक्ष्यानुसारित्वात्सति तादृशप्रयोगे तदपि स्वीकार्यमिति भावः ॥२१॥
अमूर्द्धमस्तकात्स्वाङ्गादकामे ।३।२॥२२॥ मूर्ख मस्तकवर्जात्स्वाङ्गवाचिनोऽव्यञ्जनात्परस्याः कामवर्जे उत्तरपदे लुब् न स्यात् । कण्ठेकालः । अमूद्ध मस्तकादिति किम् ? मू शिखः, मस्तकशिखः । अकामइति किम् । मुखकामः ॥२२॥ मूर्धमस्तकयोः समानार्थत्वे ऽपि 'समानाम०।३।१।११८। इति नैकशेष: शब्दस्वरूपपरत्वेनार्थ-भेदात् । स्वाङ्गमिह 'अविकारो द्रवमित्यादि परि