________________
( १५७ )
तदुपकरणान्यपि मूल्यलभ्यानीति तदर्थे राजा प्रजाभ्यः तत्र तत्रायस्थानेषु करं गृह्णाति स एव करः स्वार्थिकाण-प्रत्ययसम्बन्धेन कारोऽभिधीयते । रक्षानिवेश इति-निर्वेशः वेतनमिति यावत् । स न सर्वदेशेष्वेकरूपः क्वचित् कस्मिंश्चिदायस्थाने षष्ठभागरूपः क्वचिन्यूनः क्वचिच्चान्यप्रकार एवेत्यनेकरूपो भवति तत्र प्राचां देशे यः कारस्तत्रेदं सूत्रं प्रवर्तते । मुकुटे-मुकुटे कार्षापणो देयः मुकुटेकार्षापणः मुकटे मुकुटे-प्रतिमुकुटमित्यर्थः मुकुटनिर्माणे तस्य विक्रयतया निर्मात्रा विक्रेत्रा वा कार्षापणो रुप्यकचतुर्थांशो राजलभ्यद्रव्यरूपेण देय इति बोध्यम् । समिधि समिधि माषको देयः समिधिमाषक: ज्वालनकाष्ठविक्रेत्रा माषको देयः इति बोध्यम् । माषपरिमितो मृद्रा-विशेषो माषकः वृत्तौ वीप्साया दानस्य चान्तर्भावः । यूथे यूथे देयः पशुः यूथपशुः । अभ्यहिते अभ्यहिते देयः पशुः अभ्यहितपशः प्राचां देशे कारादन्यस्य नामैतत् । अविकटे अविकट उरणो देयः अविकटोरणः-अविः मेषः अवीनां संघात इति 'अवेः सङ्घातविस्तारे कटपटम्' ।७।१।१३२। इति कटप्रत्ययः उरणो मेष: अविसङ्घातपालकेन प्रतिसंघातमेक उरण काररूपेण इतिभावः । पूर्वसूत्रेणानिष्ट-स्थलव्यावृत्तिसिद्धाविष्टस्थले च तेनैवालुपः सिद्धौ सूत्रं व्यर्थं भवन्नियमयति । त्रिविधश्चात्र नियमः प्राचामेव कारस्यैव नाम्नि, व्यञ्जनादावेवेति तथा च प्रत्युदाहृतम् । अयं भावः-(१) व्यञ्जनादावुत्तरपदे नाम्नि सप्तम्या अलुप् चेत् प्राचामेव (२) व्यञ्जनादावुत्तरपदे नाम्नि सप्तम्या अलुप् चेत् प्राक्कारस्यैव (३) प्राचां कारस्य नाम्नि उत्तरपदे सप्तम्या अलुप चेत् व्यञ्जनादावेवोत्तरपद इति ।।११६।।
.. तत्पुरुषे कृति ॥३॥२॥२०॥
अद्वपञ्जनात्परस्याः सप्तम्याः कृदन्ते तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः। भस्मनिहुतम् । तत्पुरुषइति किम् ? धन्वकारकः । अद्वचजनादित्येव । कुरुचरः ॥२०॥ तत्पुरुषग्रहणात्पृथक्सूत्रारम्भाच्च नाम्नीति निवृत्तम् अयं भावः नाम्नि प्रायेण तत्पुरुषसमास एवेति तत्पुरुषग्रहणातु नाम्नीत्य-स्यासम्बन्धः सूचितः किञ्च 'अयञ्जनाद्' ।३।२।१८। इत्यनेनैव सिद्ध पृथक्सूत्रारम्भातु