________________
( १५६ )
पुरुषेच्छाया अनियतत्वेन आनन्त्यापत्तेः। परस्मै-पदमात्मनेपदे तु न आधुनिकसंज्ञे । 'परस्मैभाषा, आत्मनेभाषाः' इति धातुपाठादी प्रयुज्यमानावप्यनेनैव सिद्धौ ॥१७॥
अद्वयञ्जनात्सप्तम्या बहुलम् ।३।२।१८। अदन्ताद्वयञ्जनान्ताच्च परस्याः सप्तम्या बहुलं नाम्नि लुब्न स्यात् । अरण्येतिलकाः । युधिष्ठिरः। अद्वयञ्जनादिति किम् ।। भूमिपाशः । नाम्नीत्येव । तीर्थकाकः ॥१८॥ अरण्येतिलकाः इति-विग्रहवाक्यमपीदृशमेव, संज्ञात्वान्नित्यसमासः 'नाम्नि' ।३।१।६४। इति सूत्रेण । युधिष्ठिर इति–'गवियुधेः स्थिरस्य' ।२।३।२५॥ इति षत्त्वम् । तिष्ठतेः 'शुषीषि०' ।४।१।६। इति किति इरे स्थिरः। अत्रोभयत्र नित्यमेव । बहुलफलं तु क्वचित्प्रवृत्तिरित्यादि । तीर्थकाक इति- तीर्थे काक इवेति विग्रहः 'काकाद्यैः क्षेपे' ।३।१६०। इति समासः ॥१८॥
प्राक्कारस्य व्यञ्जने ।३।२।१६। राजलभ्यो रक्षानिर्देशः कारः प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानयामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे लुब् न स्यात् । मुकुटेकार्षापणः । समिधिमाषकः । प्रागिति किम् । यूथपशुः । उदीचामयं न प्राचाम् । कारइति किम् । अभ्यहितपशुः । व्यञ्जनइति किम् । अविकटोरणः ॥१६॥ राजा राष्ट्र रक्षति राज्ञा रक्षिते च राष्ट्र कृषिवाणिज्यादयः समुचित- . रूपेण संभवन्ति राजा च न स्वशरीरमात्रेण सर्व राष्ट्र पालयित क्षम इति तत्पालनाय रक्षाधिकृतपुरुषा नियुज्यन्ते ते च सवेतना भवन्ति