________________
( १५५ )
प्रयुक्त सोऽनेन शब्देन नाभिधीयते ' - अजातेः शीले' | ५|१| १५४ | इति णिन् । एवमात्मनाऽज्ञायी । ननु मनसाऽऽज्ञायीत्यत्र लुप्यनिषिद्ध ेऽपि सकारस्याss कारेण योगात् मनसाऽऽज्ञायीति रूपं सेत्स्यतीति किं निषेधेनेति चेत्सत्यम् लुप्यनिषिद्ध े तु लुपि सति प्रत्ययलक्षणेन पूर्वस्य पदत्वात् पदान्तस्य सस्य रुत्वे 'रोय':' ||३| २६ | इति यत्वे यलोपे च मनआज्ञायीत्य - निष्टं रूपं स्यात् ॥१५॥
नाम्नि | ३|२|१६|
मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसादेवी | नाम्नीति किम् । मनोदत्ता कन्या ॥ १६ ॥
योगविभागात् आज्ञायिनीति न सम्बन्ध्यते ' चानुकृष्ट' नानुवर्तते इति न्यायादात्मशब्दोऽपि न सम्बध्यते । मनसादेवीति - मनसा दीव्यादित्याशास्यमानेऽर्थे ' तिक्कृतौ नाम्नि' | ५|१|७१ ॥ इति सूत्र - सहकारेण लिहादित्वादचि देवशब्दस्तत गौरादित्वान्ङीः कारकं कृता' | ३|१|६८ | इति समासः एवं-नामा काचित् । 'मनोदत्ता कन्येति- मनसैव कस्मैचन वराय दत्ता न तु वाचा तद्दानं प्रकाशितमिति तदभिप्रायः । नं चेदं नाम, अपि तु यौगिक: शब्द: विशेषणार्थं प्रयुज्यत इति लुब्निषेधो न भवति ||१६||
परात्मभ्यां ङः | ३ |२|१७|
आभ्यां परस्य वचनस्योत्तरपदे परे नाम्नि लुब् न स्यात् । परस्मैपदम् । आत्मनेपदम् । नाम्नीत्येव ? परहितम् ॥ १७॥
परस्मैपदमित्यादि- 'तादर्थ्ये' | २|२|५४ | इति चतुर्थी, 'हितादिभिः | ३ | १|७१ | इति सूत्रेण समासः । कथं परहितो नाम कश्चिद् ? इयमाधुनिकसंज्ञा । अत्र सूत्रे आधुनिकसंज्ञाया न ग्रहणम् तस्या ग्रहणेऽनवस्थास्यात्