________________
( १५४ )
इति समासे सति 'ऐकायें' ।३।२।। इति लोपे प्राप्ते तस्याऽ नेन निषेधः । ॥१२॥
पुञ्जनुषोऽनुजान्धे ।३।२।१३॥ पुञ्जनुभ्ा परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । साऽनुजः । जनुषाऽन्धः । टइत्येव ? पुमनुजा ॥१३॥ पुसा अनुजः पुसानुजः करणे व तृतीया-योऽसौ पुमान् पूर्व जातस्तेनैवानुजत्वं कृतमिति तात्पर्यात् । जनुषा जन्मनाऽ न्धः जनुषान्धः यः जन्मनैव दृक्शक्तिहीन एवमुच्यते । पुमनुजेति-पुमांसमनुजाता पुमनुजा 'श्लिषशी ।५।१६। इति कर्तरि क्तः । 'श्रितादिभिः' ।३।१।६२। इति समासः ‘अनोजनेड:' ।५।१।१६८। इति डः ॥१३॥
आत्मनः पूरणे ।३।२।१४।
अस्मात्परस्य टः पूरणप्रत्ययान्त उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः, आत्मनाषष्ठः ॥१४॥ आत्मना द्वितीय इति-अत्र गम्यमान-करोतिक्रियापेक्षमात्मनः करणत्वमिति करणे तृतीया आत्मना कृतो दिवतीय इत्यर्थावगमात् । 'ऊनार्थपूर्वाद्य: ।३।१।६७॥ इति पूर्वादित्वात्समासः । अथवा 'प्रकृत्या चार' इतिवत् 'यद्भदैस्तद्वदारव्या' ।।२।४६॥ इत्यभेदे तृतीया ॥१४॥
मनसश्चाज्ञायिनि ।३।२।१५॥ मनसः आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे लुब् न स्यात् । मनसाज्ञायी । आत्मनाज्ञायी ॥१५॥ भनसाऽऽज्ञातु शीलमस्य मनसाऽऽ ज्ञायी, मनसेवाज्ञापयति न तु वचः