________________
( १५३ )
अत्रसमासे उसेलुबभावो निपात्यते। ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥११॥ यद्यप्ये कलक्ष्य मात्रविषयत्वात् सूत्रस्य निपातनपरत्वं तथापि प्रकरणपरिशुद्धयर्थं विधेयांशमाह-ङसेलुं बभाव इति । ब्राह्मणाद् ग्रन्थादादाय शंसतःब्राह्मणाच्छंसिनी । अत्र कुसलात्पचतीति-वद् उपात्तविषयमपादानम् । अयं भावः कुसूलादुद्ध त्य तण्डुलं पचतीति उपात्ता समीपोच्चारिता क्रियैव विषयो यस्य तथाभतम्, उद्ध त्येति क्रियानिरूपितमेवेत्यर्थः तथाऽ त्रापि आदायेति क्रियानिरूपितमपादानम् यस्मादादानं भवति तत्तस्यापादानं विश्लेषस्य सत्त्वात् । अत्र यदा उद्ध त्यादायशब्दो प्रज्युज्यते तदा केवले स्वार्थे विक्लेदने शंसने च पचिशंसी वर्तते । उद्धरति आददाति इति. क्रियापेक्षया तू निर्दिष्टविषयमपादानम् ग्रामादागच्छतीतिवत् । वेदोक्तानां मन्त्राणां कर्मसु विनियोगप्रतिपादक: कर्मस्वरूपबोधकश्च वेदभागो ब्राह्मणमित्याख्यायते अत्र ग्रन्थविशेषपर एव ब्राह्मणशब्दः । . तस्माद् ग्रन्थात् कमपि विषयमादाय यः शं-सति स ब्राह्मणाच्छंसी ऋत्विग्विशेषः, तस्य तादृशं व्रतं यज्ञकाले श्रुतमिति 'व्रताभीक्ष्ण्ये' ।५।१।१५७। इति णिन् । ब्राह्मणशसिनी स्त्रीति-निपातनेन तस्य लक्ष्यस्येष्ट-विषयत्वं विज्ञायते तस्मात् ऋत्विग्विशेषादन्यत्र लबेव, स्त्रिया ऋत्विकर्मानहत्वमिति तादृग्विशषाभावबोधनायैव स्त्रीलिङ्गप्रयोगः, पुंस्यपि तदविषये लब भवत्येव ॥११॥
ओजोऽञ्जःसहोऽम्भस्तमस्तपसष्ट: ।३।२।१२।
एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । टइति किम् ? ओजो-भाव ॥१२॥ ओजः-आन्तरं बलम्, अञ्जः-सौकर्यम्, सहः सहनसामर्थ्यं बलम्, अम्भस्तमस्-तपांसि एषां कर्तृत्वविवक्षायां करणत्वविवक्षायां वा तृतीया, कर्तरि षष्ठी तु न ‘क्तयोरसदा' ।२।२।६१। इति निषेधात् । 'कारकं कृता' ।३।१६८।