________________
( १५२ )
कालोत्पन्नस्य तु न तन्निमित्तत्वम् कार्यनियतपूर्ववृत्तेरेव कारणत्वात् तदुत्तरकारलोत्पन्नस्य तु तत्कार्यत्वमेव ||८||
न नाम्येकस्वरात् खित्युत्तरपदेऽमः | ३ |२| दी
समासारम्भकमन्त्यं पदमुत्तरपदं खित्-प्रत्ययान्ते उत्तरपदे परे नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामो लुब् न स्यात् । स्त्रियंमन्यः । नावंमन्यः । नामीति किम् । क्ष्मंमन्यः । एकस्वरादिति किम् । वधुं मन्यः । खितीति किम् । स्त्रीमानी ॥ ॥
स्त्रीं स्त्रियं वाऽत्मानं मन्यते स्त्रोंमन्यः । नावमात्मानं मन्यते नावंमन्यः । 'कर्तुः खश्' | २|१|११७ | इत्यनेन खश् 'दिवादेः श्यः | ३ | ४ |७२ | इति । श्यः क्ष्मंमन्य इति 'खित्यनव्यया-रुषो मोऽन्तो ह्रस्वश्च' । ३।२।११।। इति । स्त्रीमानीति - ' मन्याण्णिन्' | ५|१|११६ | इति णिन् । 'ऐका' |३२|| इति विहितस्य लुपोऽपवादः ॥ ६॥
असत्त्वे इसे: । ३1२1१०1
असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असस्वइति किम् । स्तोकभयम् । उत्तरपदत्येव । निः स्तोकः ॥१०॥
स्तोकान्मुक्त इति - स्तोकाल्प ० | २|२| ७६ | इति सूत्रेण पञ्चमी 'क्त' नासत्त्वे' | ३|१|७४ | इति समासः । स्तोका व्यमिति द्रव्यादित्यर्थः । निष्कान्तः स्तोकातु - निः - स्तोकः ॥ १०॥
ब्राह्मणाच्छंसी | ३ ||११|