________________
( १५१ )
1
अव्ययस्य स्यादेर्लु' प् । स्वः । प्रातः । अव्ययस्येति किम् । अत्युसः ||७||
१०
अत्युच्चैस इति- उच्चैरतिक्रान्ता इत्यर्थः तथा चात्रातिक्रमणकर्तुः प्राधायेन पूर्वपदार्थ प्रधानस्य समासस्य संबन्धी स्यादिनच्च::- शब्दस्य तेनात्र • लुब न भवति । परमोच्चैरित्यादौ तूत्तरपदार्थप्रधानत्वात्समासस्याव्ययसम्बन्ध्येव स्यादिरिति लुब्भवत्येव । अत एव लुब्बिधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते ततश्च 'अथो स्वस्ते गृहम् अथोच्चे में गृहम्' इत्यादी 'सपू'वत्प्रिथमान्ताद् वो' | २|१|३२| इति विकल्पेन 'ते मे' आदेशी पदसंज्ञा च सिध्यति ||७||
ऐका | ३||
ऐका मेकप तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः । पुत्री - यति । औपगवः । अतएव लुब्विधानान्नाम नाम्नेत्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्थ्य इति किम् । चित्रा गावो यस्येत्यादिवाक्ये माभूत् ॥८॥
ऐकार्थ्यमिति - एकोऽर्थो ययोर्येषां वा तानि - एकार्थानि तेषां भावः ऐका -
मिति व्युत्पत्ती सत्यामपि पृथक्पदानामथै- क्यस्यासंभव एव पर्यायस्थलेऽपि यथाकथञ्चिदर्थं भेदसत्त्वात् । तथा चात्र पृथगुपस्थितार्थानां पदानां वृत्तिवशादेको स्थितिजनकत्वरूप एकार्थीभाव एवाभिधीयते इति । तन्निमित्तस्येति - ' यस्मिन् सति यद् भवति तत्तस्य निमित्तम्' इति सामान्यग्याप्त्या यस्मिन् स्यादौ सति यत्र समुदाये ऐकपद्यमुत्पद्यते स स्यादि - स्तन्निमित्तमिति-ऐकपद्यपूर्व विद्यमानस्य स्यादेर्लु बिति भावः । ऐकपद्य च चतुर्षु भवति समासे नामधातुषु कृदन्ते तद्धितान्ते च । चित्रा गावो यस्य इति म चित्रगुः । पुत्रमिच्छति पुत्त्रीयति । उपगोरपत्यं औपगवः । ' ऐका' इतिनिमित्तसप्तमीविज्ञानादैकार्य्योत्तरकालस्य न भवति - चित्रगुः। ' ऐका' इत्यत्र 'क्त' त' | २|२| १०० । इति सप्तमी । अत्र सहकारित्वरूपं निमित्तम् ततश्चैकार्थ्योत्पत्तिपूर्वकाल - स्थितस्यैव स्यादेरनेन लुप तदुत्तर