________________
( १५० )
स्यादित्येतदर्थ पृथक्सूत्रकरणमिति भावः अन्यथा एकयोगनिदिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेन तृतीयासप्तम्योरुभयोरेव तत्र . सम्बन्धः स्यात्, स चानिष्ट: ॥४॥
ऋद्धनदीवंश्यस्य ।३।। एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम् । उन्मत्तगङ्गम् । एकविंशतिभारद्वाजं वसति ॥५॥ ऋद्धसमृद्धम्, मगधामा समृद्धिः । सुमगधं वसति'विभक्तिसमीप०१३।१।३६ : इत्यव्ययीभाव: उन्मत्ता गङ्गा यस्मिन्नन्मत्तगण देशे वसति, देशविशेषस्य संज्ञेयम् 'नदीभिर्नाम्नि' ।३।१२।२७। इत्यव्ययीभावः । एक-विंशतिर्भारद्वाजा बंश्या:-एकविंशतिर्भारद्वाज वसति भरद्वाजशब्दस्य बिदादी पाठः ततश्चापत्यार्थे विहितस्यात्रः यात्रोऽश्या:०' ।६।१।१२६।इति बहुत्वे लुप् स्यादिति 'एकविंशति: भरद्वाजा' इति विग्रहो युक्तः तथापि 'एकविंशतिर्भारद्वाजा वंश्या; इत्याचार्यवचमप्रामाण्याद् भरद्वाजशब्दस्योपकादिषु पाठं परिकल्प्य लुपो वैकल्पिकत्वमेष्टव्यम् । यद्वा नायमा किन्तु अस्येदमिति विवक्षायामण् । पूर्वेण विकल्पः सिद्धः किन्तु नित्यार्थ वचनम् ॥५॥
अनतो लुप् ॥३॥९॥६॥ अवन्तवर्जस्याव्ययीभावस्य स्यालुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् । उपकुम्भात् । अव्ययीमावस्येत्येव । प्रियोपवधुः । ॥६॥ वध्वाः समीपम् उपवधु । कतु: समीपम् उपकर्तुं । पियमुपवधु यस्य स प्रियोपवधुरिति-वधूसामीप्याभिलाषीत्यर्थः ॥६॥
अव्ययस्य ।३।२७।