________________
( १४६ )
अमव्ययीभावस्यातोऽपञ्चम्याः ।३।२।। अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्। नतु पञ्चम्याः। उपकुम्भमस्ति । उपकुम्भं देहि । अव्ययीभावस्येति किम् । प्रियोपकुम्भोऽयम् । अत इति किम् । अधिस्त्रि । अपञ्चम्या इति किम् । उपकुम्मात् ॥२॥ उपकुम्भमस्तीति-कुम्भस्य समीपमुपकुम्भम् । कुम्भसामीप्ययुतं यत्किञ्चि-दस्तीति अत्र प्रयमैकवचनस्य सेरमादेशः। उपकुम्भं देहीति-कुम्भसमीपयुताय देहीत्यर्थः । प्रियोपकुम्भोऽयमिति-प्रियमुपकुम्भं यस्य स-नात्र स्यादिरुपकुम्भसंबंन्धी अपि तु प्रियोपकुम्भसंबन्धीति न भवति ॥२॥
वा तृतीयायाः ।३।२।३। अवन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किन्न उपकुम्भम् । किन्न उपकुम्भेन । अव्ययीभावस्येति किम् । प्रियोपकम्भेन ॥३॥ किं न उपकुम्भमिति-नः उपकुम्भेन किं साध्यं ? किमपि न साध्यमित्यर्थः ।साधनाक्रियां प्रति उपकुम्भस्य करणत्वेन करणे तृतीयैषा तस्याश्च विकल्पेनांमावेशः। अमव्ययीभावस्यातोऽपञ्चम्याः'।३।२।३। इत्यस्यापवादोऽयम् एव-मुत्तरसूत्रमपि ॥३॥
सप्तम्या वा ।३।२।४।
अवन्तस्याव्ययीभावस्य सप्तम्या अम्बा स्यात् । उपकुम्भम् । उपकुम्भे निधेहि । अव्ययीभावस्येत्येव । प्रियोपकुम्भे ॥४॥ उपकुम्भमिति-कुम्भसमीपे निधेहीत्यर्थः तृतीयासप्तम्योर्वा' इत्येकयोगे कर्तव्ये उत्तरार्थः योगविभागः कृतः । उत्तरसूत्रे केवलं सप्तम्याः सम्बन्धः