________________
॥ अथ तृतीयाध्याये द्वितीय पादः ॥
परस्पराऽन्योन्येतरेतरस्याम् स्यादेव पुंसि | ३ |२| १|
एषामपु' वृत्तीनां स्यादेशम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परं अन्योन्यां अन्योन्यं इतरेतरं भोजयतः । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योन्याम् अन्योन्येन, इतरेतरां इतरेतरेण भोज्यते । अपुं सीति किम् । इमे नराः परस्परं भोजयन्ति ॥ १ ॥
परस्परश्चान्योज्यश्वेतरेतरश्चेति समाहारात्षष्ठी, अन्योन्येतरेतरशब्दयोद्वन्द्वं विधाय वा परस्परशब्देन द्वन्द्वस्तेनान्योऽन्यशब्दस्य स्वराद्यन्तत्वादल्पस्वरत्वाच्च परस्परशब्दात्पूर्वं प्रयोग इत्याशङ्कापि नैव कर्तव्या भवति । पूर्वमन्योन्यशब्दस्य इतरेतरशब्देन द्वन्द्व े परस्परशब्दस्यै वाल्पस्वरत्वम् । परस्परादयस्त्रयोपि स्वभावत एकत्वचनाः, पुंस्त्ववृत्तयः क्रियाव्यतिहारविषयाश्च । पुंस्त्वात् 'पञ्चतोऽ०' 19|४|५८ ॥ सूत्रं न प्रवर्तते । परस्याः परस्याः विनिमयः परस्परः अस्मादेव निर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्वित्वं निपात्यते । परस्परो भुङ्क्ते, भुञ्जानं तं सख्यौ कुले वा प्रयुञ्जाते 'गतिबोधा' | २२|५| सुत्रेणाणिक्कतु : परस्परस्य कर्मत्वम्, अनेन आम्, पक्षे परस्परमेवमग्रे ऽपि । अत्र करणे सहार्थे वा यदा तृतीया तदा भोज्यते इति रूपं भवति तद् आभिः सखीभिरित्यनेन दर्शितम् । अत्र करणे सहार्थे वा यदा तृतीया यदेकोणिग्, यथा भुङ्क्ते जनस्तं भुञ्जानं सख्यः प्रयुञ्जते इति णिग्, केन सह केन कृत्वा वेति शङ्कायां परस्परेण । यदा तु कर्तरि तृतीया तदा णिग् द्वयं यथा भुङ्क्ते जनस्तं भुञ्जानं परस्पर: प्रयुङ्क्ते इत्येको णिग, तं परस्परं भोजयन्तं सख्यः प्रयुञ्जतं इति द्वितीया णिग्, ततः कर्तरि तृतीया । यदा तु प्रथम - कवचनस्याम्भावः तदामभावपक्षे परस्परो भोज्यत इत्यादि द्रष्टव्यम् । यत्र तु पुल्लिङ्गस्तदाम् नेत्याह इमे नरा इति ||१||