________________
( १६५ )
प्रतिपादन मिति तदर्थः, अथ च वाचा करणभतया सयुक्तिप्रतिपादनं वाचः स्पष्टत्वमिति वाऽर्थः । दिशोदण्ड इति तात्स्थ्यरूपसम्बन्धे षष्ठी ॥३२।।
-
अदसोऽकगायनणोः ।३।२॥३३॥
अदसः परस्या: षष्ठया अका-विषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका । आमुष्यायण ॥३३॥ अका आयनण् द्वौ प्रत्ययौ 'संज्ञो-त्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य व ग्रहणं न तदन्तस्य' इति न्यायस्यांश: 'न वा खित्कृदन्ते रात्र: ।३।२।११७। इत्यत्रान्तग्रहणेन ज्ञापितः परन्तु यत्र संभवस्तत्र प्रत्ययमात्रस्य व ग्रहणं यत्र न संभवस्तत्र प्रत्ययान्तस्येति व्यवस्था पूर्वमुक्ता, अत्र चाका विषयेऽ संभवोऽस्ति नह्यदसः परस्या षष्ठ्या अकत्र -परत्वसंभवः अदसोऽ-कविधानाभावात् चोरादित्वाद्धयकत्र विधीयते चौरादि-गणे नादसः पाठोऽ पि.तु अमुष्यपुत्रशब्दस्य व तथा चाका -प्रत्ययान्तमप्युत्तरपदं न संभवति केवलपुत्रशब्दादकत्रो. विधानाभावात् । एवं च प्रत्ययमानस्य प्रत्ययान्तस्य चोभयोरसंभवात् विषयपरतया सप्तमी व्याचष्टे-अकत्रविषये उत्तरपदे इति । यद्यप्युत्तरपदमात्रस्य नाकविषयत्वमपि तु समुदायस्य व तथापि समदायद्वाराऽ-वयवेऽपि तद्विषयताऽ क्षतैवेति मत्वा 'अकत्र विषये उत्तरपदे' इति व्याख्यानं कृतम् । आयनणस्तु केवलस्यापि षष्ठयन्ताददसः परत्वसंभवादत्रा तस्य स्वरूपस्य व ग्रहणं कर्तव्यम्-तदन्तस्योत्तरपदस्य तु नास्त्यत्रापि संभवोऽदस एव तद्विधानादिति स्वरूपमात्रस्य व ग्रहणमित्याह-आयनणि च पर इति । अमष्य पुत्रस्य भाव:- आमुपुत्रस्य भावः आमुष्यपुत्रिका। चौरादित्वात् 'चौरादेः' ।७।१।७३। इत्यनेकत्र । न च चौरादिगणे अमुष्यपत्रशब्दस्य पाठसामर्थ्यादेव षष्ठया अलुब भविष्यति, गणापाठ - स्यपरम्पराप्राप्तत्वेन प्रामाणिकत्वस्य प्रयोग- . साधुत्वनिर्णायकत्वस्य च सर्वैरपि स्वीक्रियमाणत्वात् एवं च सूत्रण तद्विधानं व्यर्थमिति बाच्यं गणे पाठस्य केवलमकञ्विषये एव साधुत्व. मित्येतावन्मात्रार्थसाधकत्वमित्ये-तत्सूत्रोण बोध्यते तदर्थमेव च पुनरलुपो विधानमिति न तद्व-यर्थमन्यथा अमष्यपत्रशब्द: व्यस्तः समस्यश्च प्रयुज्येत, अमुष्यपुत्रस्यापत्यमामुष्यपुत्रिः ततोऽ पि प्रत्ययान्तरमित्यधि