________________
( १६६ )
नेकानिष्टं स्यादिति । अमुष्यापत्यम्-आमुष्यायण: 'नडादिभ्यः आयनण्' ।६।१।५३। इत्यनेनायनण् । यद्यपि नडादिगणेऽ-मुष्यशब्दपाठेन षष्ठ्या अलुप साधयितु शक्यते तथापि तथापाठस्य अमुयोरपत्यममीषामपत्यमित्याद्यर्थे आयनणोऽ भावार्थ-त्वस्य कल्पनात् न षष्ठयलुप्साधक-त्वम् इति न तेनैतत्सूत्रस्यानर्थक्यशङ्का कर्तव्या ॥३४॥
देवानां-प्रियः ।३।२।३४॥ अत्र षष्ठया लुब् न स्यात् । देवानांप्रियः ॥३४॥ . देवानां प्रियः-अयं मूर्खे दृश्यते । निपातनमिदम् । ते-नार्थ-विशेषविषयता लभ्यते ॥३४॥
शेपपुच्छलाङ्गुलेषु नाम्नि शुनः ।३।२।३५, शुनः परस्याः षष्ठयाः शेपादावुत्तरपदे संज्ञायां लुब् न स्यात् । शुन-शेपः । शुन: पुच्छः । शुनोलाङ्लगूकः ॥३५॥ शुनः शेपमिव शेपमस्य-शुनः-शेपं:, शुनः पुच्छमिव पुच्छमस्य शुनः-पुच्छ:, शुनो लागूलमिव लाङ्गलमस्य शुनोलाङ्गलः । शेपः-शब्दः सकारान्तोऽप्यस्ति, इह त्व-कारान्तस्य ग्रहणम् तथैव सूत्रे पाठात् तथा च सकारान्ते परे लुबेव भवति । शेपशब्दो यद्यपि पुस्येवानुशिष्टस्तथापि बृहद्वृत्तावस्य नपुंसकत्वेन विग्रहवाक्ये निर्देशात् नपुंसकत्वमपि विज्ञेयम् । शेपशब्द: पुलिङ्गस्य मेढस्य वाचकः'शुनः-शेपादयस्त्रयोऽपि ऋषिविशेषाणां नामानि, अन्ये तु 'सिहस्य शेपं, सिंहस्य पुच्छं, सिहस्य लाङ्ग्लम्, इत्यत्रापीच्छन्ति तन्मतसंग्रहार्थं बहुवचनं कृतमर्थात् समाहारं विहायेतरेतरयोगस्य ग्रहणम्, कृतम् अनाम्न्यपि विध्यथं वा सिंहस्य शेपमित्यादीनां व्यस्तानामपि प्रयोगे फले भेदाभावेन समस्ता एवैते शब्दा इत्यत्र विनिग-मकाभावेन तेषामसंग्रहेऽपि दोषाभाव इत्यरुचिसूचकस्तुशब्द: पूर्वपक्षेऽ- रचेद्वितीयपक्षाश्रयणम् अयमाशयः-बहुवचनस्य व्याप्त्यर्थत्वसंभवेऽपि यत्र बहुवचनं तद्वंशे एव व्याप्तिः स्यादिति शपादिभ्योऽन्यत्राऽप्युत्तरपदे तत्प्रवृत्तिः स्यात् न तु