________________
( १६७ )
शुन्यस्य पूर्वपदस्य ग्रहणं स्यात्, शेपादिभ्योऽन्यत्र चोत्तरपदे प्रवृत्तिरनिष्टेति बहुवचनसार्थक्याय नामभिन्नेऽपि विषये सूत्रस्य प्रवृत्तिरित्येव कल्पनं वरमिति ॥ ३५ ॥
वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् | ३|२|३६|
एते समासाः षष्ठचलुपि निपात्यन्ते नाम्नि । वाचस्पतिः । वास्तोष्पतिः । दिवस्पतिः । दिवोदासः || ३६ |
पृथक् पूर्वोत्तरपदयोनिर्देशेन निपात्यन्त इति लभ्यते । वाचस्पतिरितिबृहस्पतेर्नामेदम्, वास्तोष्पतिरिति - इन्द्रस्य वास्तुभूमिसाक्षिणो देवस्य च नामेदम् । दिवस्पतिरिन्द्रः । दिवोदासः - पुराणप्रसिद्धो राजा स च चन्द्रवंशीयः काशिराजः । वाचस्पति: दिवस्पतिरित्यत्र 'भ्रातुष्पुत्रकस्कादयः' | २|३| १४ | इति सूत्रेण कस्कादित्वाद रस्य सत्त्वम् । वास्तोष्पति - रित्यत्र भ्रातुष्पुत्त्रादित्वात् रस्य षंकारः । यद्यपि भ्रातुष्पुत्रादिगणे कस्कादिगणे चैषां पाठो न दृश्यते तथापि तत्र सूत्रे बहुवचनोपादानात्सिद्धिः । यद्वानिपातनेन सकार-षकारौ||३६||
ऋतां विद्यायोनिसम्बन्ध | ३ | २|३७|
ऋदन्तानां विद्यया योन्या वा कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ठयास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुःपुत्रः । पितुः पुत्रः । पितुरन्तेवासी । ऋतामिति किम्। आचार्यपुत्रः । विद्यायोनिसम्बन्ध इति किम् ? भर्तृगृहम् ॥३७॥
अत्र विद्यायोन्योद्वन्द्व योनिशब्दस्येदन्तत्वेन तस्यैव पूर्वनिपाते प्राप्ते विद्याकृतस्य सम्बन्धस्य योनिसम्बन्धापेक्षयार्यत्वेन विद्याया एव पूर्वनिपातः । बहुधा हि शास्त्रे योनिवंशापेक्षया विद्यावंशस्य प्राबल्यं दृश्यते इति विद्याया अर्चत्वं निविवादम् । एवं च तदर्थं निर्देशसामर्थ्य - धर्मार्था - दित्वकल्पनादिक नावश्यकमिति भावः । विद्यायोनिसम्बन्धे इति पदं