________________
( १६८ )
काकाक्षिगोलकन्यायादावृत्त्या वा द्विधा सम्बन्ध्यते-'ऋताम्' इत्यनेन उत्तरपदे इत्यनेन च। पित्रादिशब्दानां योनिसम्बन्धस्य प्रवृत्तिनिमित्तत्वम् । होत्रादिशब्दानां विद्यासम्बन्धस्य प्रवृत्तिनिमित्तन्वम् नच 'ऋत' इति जातिवाच्येकवचनान्तेनैव बहनामृदन्तानां सम्भवे सम्भवति बहुवचनं व्यर्थमिति वाच्यं वहवचनस्य 'बिद्यासम्बन्धनिमित्ते योनिसम्बन्धनिमित्ते' इति यथासङ्ख्यप्रतिपत्तेव्युदासार्थत्वात् । अयं भावः यदि यथासङ्खयप्रतिपत्तेव्युदासो न भवेत्तहि--विद्यासम्बन्धनिमित्ते वर्तमानस्य सम्बन्धिन्याः षष्ठया विद्यासम्बन्धनिमित्त एवोत्तरपदे अलुप् स्यात्, 'योनिसम्बन्धनिमित्ते. वर्तमानस्य सम्बन्धिन्याः षष्ठयाश्च योनिसम्बन्धनिमित्त एवोत्तरपदे अलुप स्यादिति होतुः पुत्रः, पितुरन्तेवासी इत्यादावलुप् न स्यात् । 'ऋद्भयः इति पञ्चम्यन्तेन निर्देशे प्राप्ते षष्ठीनिर्देशः उतरार्थः' 'आ द्वन्द्वे' ।३।२।३९। इति सूत्रे मृतामिति षष्ठ्यन्तस्यैव सम्बन्धस्य युक्तत्वात् षष्ठीनिर्देश कृत इत्यर्थः । अयं भावः सूत्रे विभक्त : प्रकृत्या सह सम्बन्धमात्रप्रतिपादनेनापि लक्ष्यसिद्धौ बाधकाभावात् लाघवानुरोधात षष्ठीनिर्देश एव कृत 'ऋयः' इति कृते तु 'आ द्वन्द्व' ।३।२।३९। इत्यत्र तत्सम्बन्धासंभव आदेशविधौ स्थानार्थिकायाः षष्ठया एवोचितत्वात् तथा चोभयसूत्रसम्बन्धार्हेण षष्ठयन्तेनैव सम्बन्ध उचित इति । भर्तृ गृहमिति-भर्तृ शब्दोऽ त्राधिपवाचकः । पूर्वपदविशेषणस्य फलं तु भर्तृ शिष्यः,भर्तृ पुत्र इत्यादौ द्रष्टत्यम् । अत्र भर्तृ शब्दोऽधिपवाचक: यदा तु वल्लभवाची तदा भर्तु : शिष्य इति भवति । उत्तरपदविशेषणम्य फलं तु होतृधनम्, पितृगृहमित्यादौ द्रष्टव्यम् ।।३७॥
स्वसृपत्योर्वा ॥३॥२॥३८॥ विद्यायोनिस बन्धनिमित्तानामृदन्तानां षष्ठयाः स्वसृपत्योरुत्तरपदयोर्योंनिसम्बन्धनिमित्तयोलुब् वा न स्यात् । होतुः-स्वसा। होतृस्वसा । स्वसुः-पतिः। स्वसपतिः । विद्यायोनिसम्वन्धइत्येव । भर्तृस्वसा । होतृपतिः ॥३८॥ योनिसम्बन्धनिमित्तयोरिति-विद्यासम्बन्धांशः स्वसृपत्योर्न सम्बध्यतेऽसंभवात् तथा च योनिसम्बन्धांशमात्र तत्र संवध्यते । ननु स्वसुर्योनि