________________
( १६९ ।
सम्बन्धस्याव्यभिचारात्तत्र न तत्सम्बन्धो युक्तः, पत्या सहापि न लत्सम्बन्धसंभवः, योनिसम्बन्धे सति पतिपत्नीभावस्यैवासंभवात् । योनिसम्बन्धी हि जन्मना सम्बन्धः, जनाना च सम्बन्धे सति पतिपत्नीभावस्य निन्दितत्वमेवेति सर्वथाऽत्र उत्तरपदांशे 'विद्यायोनिसम्बन्ध' इति पदस्यासम्बन्ध एव युक्तः इति चेत्सत्यम् उत्तरपदेन तत्सम्बन्धस्य पूर्वसूत्रे स्वीकृतत्वेनात्रापि यावदंशे तत्सम्बन्धे कृते क्षत्यभावः इत्याशयेन वृत्ती तत्सम्बन्धः कृतः, पत्या सह पूर्व योनिसम्बन्धाभावेऽपि पूत्रादिद्वारा तत्सम्बन्धस्य भावित्वादस्त्येव संभव इत्याशयेन तत्सम्बन्धः कृतः । सो स्वसृपत्योरिति द्वन्द्व पतिशब्दस्येकारान्तत्वेन तस्यैव पूर्वनिपाते प्राप्ते धर्मार्थादित्वात् स्वसुरिह पूर्वनिपातः । स्वसुः मातृपितृसम्बन्धविशिष्टाया बुद्धिविषयत्वात् तस्याश्च लोकव्यवहारदृष्ट्या पत्युरपेक्षया अर्च्यत्वाद्वा स्वसृशब्दस्यैव पूर्वनिपात । भत स्वसेति-अत्र पूर्वपदं न विद्यायोनिसम्बन्धे यो ह्यस्या भर्ता.तस्येयं स्वसेति प्रतीते: स्वसुर्योनिसम्बन्धसत्त्वेऽपि भर्तृ शब्दस्य भरणकर्तृत्व-- पालकत्व)-रूपार्थनि-मित्तकस्य विद्यायोनिसम्बन्धनिमित्तकत्वाभावात् । होतृपतिरिति-अत्रोत्तरपदं न योनिसम्बन्ध, पतिशब्दो ह्यत्र स्वामिवाचकः । पूर्वेण नित्यं प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥३॥
आ द्वन्द्व ।३।२।३६।
विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां योद्वन्द्वस्तस्मिन् सत्युत्तरपदे पूर्वपदस्याऽऽत्स्यात् । होतापोतारौ । मातापितरौ । ऋतामित्येव । गुरुशिष्यौ । विद्यायोनिसम्बन्धइत्येव । कर्तृकारयितारौ ॥३६॥ होतापोतार।विति-होता हवनकर्ता, पोता-पुनातीति पावनकर्ता ऋत्विग्विशेष:, उणादिषु निपातनादिड-भाव: । अथ होतृपोतृनेष्टोद्गातारः' इह प्रथमयोः कस्मान्न भवति ? इति चेत्-सत्यम् अन्त्यस्यैवोत्तरपदत्वान्न भवति । अयं भावः-उत्तरपदशब्दः समासचरमावयव-भते पदे रूढः, उत्तरपदत्वस्य च पूर्वत्र सति यस्मात्परं नास्तितत्त्वमेव प्रवृत्तिनिमित्तत्वम्,