Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 450
________________ ( १०७ ) पूजायामिति किम् । सुसीमो नागः ॥ १०८ ॥ वृन्दारक इव वृन्दारकः । गौश्वासी वृन्दारकश्च गोवृन्दारकः । वृन्दारकशब्दो देववाची स गवादिना समानाधिकरणमलभमानः तात्पर्यमूलकलक्षणया स्वसदृशार्थपरः । तथा च गोवृन्दारक इति समासस्य वृन्दारकसदृशो गौरित्यर्थः । यथा सर्वप्राणिषु देवाः श्रेष्ठास्तथा गोष्वयं श्रेष्ठः पूज्य इत्यर्थः । अत्र वृन्दारकशब्दो वृन्दारकगतं पूज्यत्वं गुणमाश्रित्य गवि वर्तते अतो गोः प्रशंसा पूजा गम्यते इत्यर्थः । नागो हस्ती । नाग इव नागः । नागश्चासौं गौश्चेति गोनागः नाग इव बलेवानित्येवमुच्यते । कुञ्जरो हस्ती कुञ्जर इव कुञ्जरः । गौश्चासी कुञ्जरश्च गोकुञ्जरः । वृन्दारकादीनां जातिशब्दत्वेऽपि उपमानात्पूजावगतिः । शोभना सीमा स्फटा यस्य स सुसीमो नागः । नाव नागशब्द: पूजां गमयति किंतु जातिमात्रम् । स्फटा फणेत्यर्थः । नन्वत्र सुसीमत्वेन शोभनकणतया नागस्य पूजा गम्यत इति कथं समासो न भवतीति चेत्सत्यं 'पूजायाम्' इत्यनुवृत्तेन 'वृन्दारक नागकुञ्जराः विशिष्यन्ते तथा च पूजायां ये वृन्दारकनागकुञ्जराः ये पूजां गमयन्ति तैः समासः इत्यर्थो जातः । सुसीमो नाग इत्यत्र तु सुसीमवचनः न तु नागशब्द इति समासो न भवति । व्याघ्रादेराकृति - गणत्वात् 'उपमेयं व्याघ्राद्यः साम्यानुक्ती' | ३|१|१०२ । इत्येव सिद्ध पूजायामेवेति नियमार्थं साम्योक्तावपि विधानार्थं च वचनम्, तेन गोनागः बलवानि - त्यादि सिद्धम् ||१०८ || Cateतमौ जातिप्रश्ने | ३|१|१०६ | एतावेकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कतरकठः । कतमगार्ग्यः । जातिप्रश्न इति किम् । कतरः शुल्कः । कतमो गन्ता ॥ १०६ ॥ एतावेकार्थाविति - अन्यत्र द्वयोरेकस्मिन् निधार्ये उतरो भवति बहूनामेकस्मिन् निर्धार्ये तमो भवतीति कतरकतमयोनै कार्यत्वम् किन्तु 'बहूना प्रश्ने डतमश्च वा' | ७|३ | ५४ | इत्यनेन प्रश्नपूर्वके निर्धार्थे इतमो

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576