Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ ततो राज्ञा सोऽश्वो मेघवाहनकुमाराय समर्पितः । अन्यदा कुमारः क्षत्रियकुमारैः सह वसन्ते वने" वाहकेली कर्तुं तमारुह्य गतः। विपरीतशिक्षितेन हरणं कृतं सहसा तेन हयेन। महारण्यं प्रापितो रुधिरभरितश्च भूपतिस्तेन । तृषाक्रान्तः श्रान्तः पद्भ्यामितस्ततः पर्यटन् महासरोवरं दृष्ट्वा स्नानं कृत्वा तत्तीरवटाघस्तात् सुप्तः क्षणम्, तावत् सन्ध्या पतिता। जागरुकः सन्
उद्यमे नास्ति दारिद्र्य, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ।।२६।।
इति विचिन्त्य वटशाखायां चडित्वा खड्गमाकृष्योपविष्टः ! तावता मध्यरात्री घोरान्धकारे सरःपालौ प्रदीपवदुद्योतं दृष्ट्वा तत्रायातो महोरगमेकं फणिमणिदेदीप्यमानं प्रबलनकुलः खण्डि(ण्डी)कृतं पश्यति । तं दृष्ट्वा -
केसरिकेस फणिंदमणि सरणाई सुहडाण |
सतीपयोधर कृपणधन ए लीजइ मूआण ||२७| अयत्नप्राप्तमणिम्
एकिइ ठामि वसंतडां, एवडलं अंतर होइ। अहिडसीउ महिअलि पडइ. मणि जाछ(च)इ सहू कोइ ।।२८ ।।
महाकार्यकरं मत्वा जगृहे४० । प्रातः सुरङ्गं व्याघ्रव्यापादितं निरीक्षा(क्ष्या)ऽग्रे चलितः साकेतनपुरपत्तनं प्राप्तः । “सर्पदष्टं नृपकुमारं १ मन्त्र-यन्त्रौषध-गारुडोद्गाराऽमरकन्दादिना(भिर)ऽनाप्तचैतन्यं यो जीवयति, राजा तस्य रूपमञ्जरीपुत्रिकां पञ्चशतग्रामाधिपत्याभिरामं ददाति' इति चतुरशीतिचतुष्पथेषु पटहं वाद्यमानं श्रुत्वा मेघवाहनकुमारः पस्पर्श ! प्रधानैर्नृपसदसि सादरं समानीतः(सः) । तत्र बह्वाडम्बरं कृत्वा - यतः-आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च।
सभायां व्यवहारेषु, शत्रुमध्ये तथैव च ।।२९।। [ ] कुमारः [तां] मणिस्नानपानीयाभिषेकाज्जीवयामास । राज्ञा महोत्सवपूर्वं स्वपुत्री परिणायितः । पृथ्वीपतिप्रदत्तप्रौढावासे नवोढया नृपपुत्र्या सह पञ्चविधविषयसुखमनुभवन्
३६. आपिउ' इत्यर्थः । ३७. 'वनखंड' इत्यर्थः । ३८. 'देखीनइ' इत्यर्थः।। ३९. 'जाणीनइ' इत्यर्थः। ४०. लीधउ' इत्यर्थः । ४१. 'राजानु [पुत्र इत्यर्थः ।
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84