Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ श्रुतसागर - ३५ विद्यारम्भससंरभ(रम्भ)-परिरम्भपुरन्दर(:)। विनयौ-दार्य-शौर्यादि-गुणकल्पद्रुमन्दरः ।।१७ ।। स्मरवत् सुन्दराकारः, स्पृहणीयो मनीषिणाम् । लावण्यपुण्य-सत्पुत्रः, समभूत्६ मेघवाहनः ।।१८।। पात्रे त्यागी गुणे रागी, भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा, पुरुषः पञ्चलक्षणः ।।१९।। इत्यादिपुरुषगुणलक्षणलक्षित:२८ प्राप्तः नवयौवनं कलाकलापसम्पन्नः समानवयोराजराजानर्कमाण्डलिकमन्त्रिकुमारैः साकं नानाविधक्रीडाविनोदैर्राजलीलां करोति। गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ।।२०।। विवादेन दिनं याति, निद्रया याति शर्वरी। कुविद्यया वयो याति, केषाञ्चित् पापकर्मणाम् ।।२१।। एकदा तत्र नगरे, हयविक्रयकारकैः । नानादेशात् समानीता-स्तुरङ्गा लाभहेतवे ।।२२।। दुब्बलकन्ना बंकमुह खंद्धग्गला सरोस। जेता तुरीयह हूंति गुण, तेता नरवइ दोस ।।२३।। पादाः कुन्दक(कन्दुक)वत् स्थितिश्च गिरिवत् संस्फारनं सिंहवत(द्)। नेत्रे नीरजैवत(द) जवः पवनवत हे(द्धोषारवो मेघवत् । विज्ञासो(?) नटवत(द्) मुखं कुलवधूवक्त्रेन्दुवद् वाजिनो। यस्य स्यान्मकराकरान्तधरणीराज्यप्रदः सोऽनिशम् ।।२४।। इत्यादि शालिहोत्रप्रणीताश्वलक्षणपरीक्षणविचक्षणमन्त्रिभिः परीक्षां विधाय तेषां मध्यादेकंस्कन्धोद्धतं मध्यमितं सरोषा, सड़कीर्णकर्णं लघु-वक्रवक्त्रम | चलत्पदं लोमसु तेजसाढ्यं, स्थूलं च पश्चाज्जगृहे नृपोऽश्वम् ।।२५।। २५. भणाववानउ योग्य' इत्यर्थः । २६. "हूउ' इत्यर्थः । २७. 'दानी' इत्यर्थः । २८. 'सहितः' इत्यर्थः । २९. 'कुमार' इत्यर्थः । ३०. ते साथई' इत्यर्थः। ३१. डाहा' इत्यर्थः । ३२. 'दडउ' इत्यर्थः । ३३. 'कमल' इत्यर्थः । ३४. आसमुद्रान्त(?)वा समुद्री(द्रा)न्त(?) इत्यर्थः । ३५. 'रोम' इत्यर्थः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84