Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ इक्षुक्षेत्रं समुद्रस्य, योनिपोषणमेव च । प्रसादो भूभुजो घ्नन्ति, क्षणादेव दरिद्रताम् ।।३५।। [ ]
ततः कियद् दिवसैः सार्थस्य मिलितः सुखप्रयाणै रत्नपरं प्राप्तः । भाटकादुत्तारकं गृहीत्वा सभार्यः स्थितः तत्र । सर्वरत्नगुणपरीक्षणदक्षस्य तन्नगरनिवासिनो रत्नसारव्यवहारिणः सत्यशौचाचारनिरतस्य कुमारेण दर्शितं रत्नम् । तेन सम्यग निरीक्ष(क्ष्य) हृदये विचार्योक्तम्-'कुमार! श्रुणु, एतदपराजिताभिधानं रत्नं दुर्लभं योऽङ्गदे मौलौ वा सुवर्णजटित धारयति स विश्वे नापजे(ज)यः स्यात् ५ | परीक्षा पश्य।' इत्युक्त्वा भार्यापार्धात्६ शालिकूरभृतां स्थालमानायितं गृहचतुष्के पट्टोपरि मुक्तम्। काक-चटका-गृध्रादयः पक्षिणो भक्षि(क्ष)णार्थं परितो भ्रमन्ति, परं कणमात्रमपि ग्रहीतुं मणिप्रभावान्न शक्नुवन्ति। रत्ने गृहीते तैः सर्वोऽप्योदनो भक्षितः। यथा पक्षिणस्तथा वैरिणः(णो) यथौदनस्थालं तथा राज्यं मणिपार्श्वपुरुषाधिष्ठित केनाप्युपद्रवितुं न शक्यते।
पुनर्जलकुण्डमानायितम् । तदुपरि रत्नं मुक्तम् । न ब्रुडति। 'जलोत्तारकं हस्तादौ बद्धं भवति ।' इति अमूल्यमिदं कस्याऽपि बहुसुवर्णकोडिलाभेऽपि नाऽर्पणीयम्। तत्प्रभावं श्रुत्वा नवग्रहपट्टे सुवर्णमढितं कृत्वा केशपाशे बद्धम् । एकदा तत्र निवसन् विश्वातिशायिरूपवान् रणसू(शू)रनृपपुत्र्या गवाक्षोपविष्ट्या मदनमज्जरीनाम्न्या 'परनारी सहोदरो यो भवति स चैव वरः, नान्यः' इति तारुण्येऽङ्गीकृतप्रतिज्ञया दृष्टः । योगिनी महाविद्यासिद्धा पात्रपूरणादिना सन्तोषिता। यतः -
इतोऽग्रं पद्यमेकं सम्भवति। परं, हस्तप्रते नास्ति
अदृश्यकरणाञ्जनजो(यो)गात् राजपुत्रीमदृश्यां स्वकरे धृत्वा रूपपरावर्तविद्यया तरुणीरूपं कृत्वा सश्रृङ्गारा कुमारपार्श्वे रात्रावागता हावभावान् तन्वन्ती । कुमारेण चिन्तितम्
भक्खणे देवदव्वस्स, परत्थीगमणेण च । सत्तमं नरयं जन्ति, सत्तवारा उ गोयमा ||३५।। चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धाना-ऽनन्तकायके ||३६ ।।
४५. 'हुइ' इत्यर्थः । ४६. 'पाहि(सि) इत्यर्थः। ४७. 'लीधउं' इत्यर्थः। ४८. 'बीजी परीक्षा' इति ४२. 'लीधी'-'बाधा' इत्यर्थः। ५०. 'अथाणउ' इत्यर्थः।
For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84