Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 9
________________ * श्री शृङ्गार वैराग्य तरंगिणी ४॥ SHASHRSHASHRSHASH चंद्र ग्रासीकरोति तथा एते वक्रकचा ज्ञाननाशका इत्यर्थः ।। ननु निश्चितं ते वक्रकचाः सुकृतमर्त्यविवेकदेहनिर्दारणे । सुकृतमेव मर्त्यस्तस्य यो विवेक एव देहस्तस्य निर्दारणे नवक्रकचाः नवाश्च ते क्रकचाश्च नवक्रकचाः नूनं करपत्राणि ।। क्रकचं पुनपुंसकं ।। करपत्रं चेति नाम कोशः ।। स्फुरन्ति स्फुरद्रूपा वर्तन्ते इत्यर्थः ।। अत्र क्रकचाः नवक्रकचा इति भिन्नश्लेष एव चमत्कारः ।।। (उपेन्द्रवजा) अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदं ।। वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ।।४।। अस्याः नायिकायाः कुन्तलभार बद्धकेशसमूहं ।। कुन्तलाः संयता ये स्युरिति कोशः ।। विलोक्य लोकः प्रमोदं हर्षं कुरुते ।। कथंभूतं कुन्तलभारं?। अलंकृतं पुष्पादिना संस्कृतं ।। अमुं कुन्तलभारं कुंतभारं कुंतः प्रासोऽथमुद्गर इति नामकोशः ।। किं न पश्यसि ।। कथंभूतं कुन्तभारं ?।। वैराग्यवीरच्छिदुरं वैराग्यमेव वीरः सुभटस्तस्य छिदुरः छेदनशीलः तं ।।पुनः कथं० कुन्तभारं ?||दुरन्तं दुष्टमन्तं प्रान्तं यस्य तं ।। अन्ते तीक्ष्णत्वात् दुःसहमित्यर्थः ।।कुन्तलभारः कुन्तभारः कथं स्यात् ?।। न विद्यते लः लकारो यस्य सोऽलस्तं अलंकृतं विहितं ।। लकाररहितः कुन्तलभारः कुन्तभारः स्यादेवेत्यर्थः ।।४।। Jain Education Intern For Personal & Private Use Only Il www.ainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40