Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 15
________________ श्री शुमार वैराग्य तरंगिणी ॥१०॥ (पृथ्वीगुरु) यियाससि भवोदघेर्यदि तटं तदेणीदृशा,-महीनमधरं धरं परिहरेः परं दूरतः ॥ इहास्फलनतोऽन्यथा विशदवासनानौस्तव, व्रजिष्यति विशीर्णतां न भविता ततो वांछितं ॥१२॥ हे पुमन् यदि त्वं भवोदधेः संसारसमुद्रस्य तटं पारं यियाससि यातुमिच्छसि ।। यातेः सन्नतान्मध्यमपुरु पैकवचनरूपं ।। तदा एणीदृशां एणी हरिणी तस्या दृश इव दृशो यासां तास्तासां अधरं घरं पर्वतं दूरतो दूरात्परं त्वं परिहरेः ।। किंभूतमधरं?।। अहीनं परिपूर्ण अमृतादिना ।। अन्यथा यदि न परिहरसि तर्हि इह पर्वते आस्फलनतः संघटनात् तव विशदवासना निर्मलवासना एव नौः विशीर्णतां भंगतां व्रजिष्यति ततस्तद्वाछितं न भविता न भविष्यति ॥यथा समुद्रमध्ये पर्वतास्फलनान्नावि भग्नायां वांछितं न भवेत्तथेत्यर्थः ।। अधरं धरं कथमिति प्रश्ने उत्तरं ।। अहीनं एन अकारेण हीनं अधरं धरं स्यादेव ।। सानुमान् पर्वतो धरः ।। धरः शैलस्तथोदय इति कोशः ॥१२॥ (शिखरिणी) नभातीदं म्रातः स्फुरदरु णरत्नौघकिरण,-प्रतानं तन्वंग्यास्तरलतरलं कुण्डलयुगं ।। दमं दुग्धं पुंसामिह विरहसंयोगदशयो, ललच्छोकानंगज्वलनयुगिदं कुंडयुगलं ॥१३॥ हे भ्रातस्तन्वंग्याः कृशांग्याः इदं कुंडलयुगं कुंडलस्य कर्णाभरणस्य युगं न भाति न शोभते ॥ कथंभूतं ||॥१०॥ Jain Education Intern For Personal & Private Use Only O ww.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40